SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ विलास.७] अलङ्कारप्रकरणम्। २०३ विशेषणवैचित्त्यमूलत्वात् परिकरालङ्कारो निरूप्यते । अलङ्कारः परिकरः साभिप्राये विशेषणे । यत्र विशेषणं साभिप्रायं भवति तत्र परिकरालङ्कारः। यथा नजेन्द्र तव कृष्णाय कृपाणाय विरोधिनः। आत्मार्पणं वितन्वन्ति दिव्यभोगजिघृक्षवः॥ अत्र कृष्णायेतिविशेषणं वैरिणां ग्रहणेच्छागोचरीभूतदिव्यभोगसम्पादनसामर्थ्याभिप्रायकम्। यथावा इन्द्रं न शास्मि धर्मेषु नयनैनं शृणोमि च। वक्तुं श्रोतुमहं शक्तः कथं नाविभोर्गुणान् ॥ अत्र धर्मेष्विन्द्रं न शास्मि नयनैन शणोमि चेति विशेषणद्वयं क्रमेण स्वस्मिन् बृहस्पतिशेषासाधारणकार्यकरणप्रतिषेधमुखेन नाहं बृहस्पतिर्न शेष इत्यभिप्रायगर्भम् । प्रथमोदाहरणे पदार्थरूपं विशेषणम् । द्वितीयोदाहरणे वाक्यार्थरूपं विशेषणम्। 'विशेषबोधायोक्तस्य वक्ष्यमाणस्य वा भवेत् । निषेधाबाधकथनमाक्षेपः स उदाहृतः ॥' यत्र विशेषप्रतिपत्त्यर्थमुक्तवक्ष्यमाणयोः प्राकरणिकयोनिषेधाभासः कथ्यते स आक्षेपः । अत्र उक्तविषये वस्तु वा कथनं वा निषिध्यत इति दैविध्यम् । वक्ष्यमाणविषये तु कथनीयमेव निषिद्धयते । तत्रापि सामान्यप्रतिज्ञा, विशेषनिषेधः । अंशोक्तावंशान्तरस्य वा निषेध इति दैविध्ये चातुर्विध्यम् । अत्र प्रथमं यथा__ न भवतु नञ्जमहीन्द्रो मृदुलप्रकृतिस्तथापि पदनम्रान् । नरपतितिलकान्नियतं कलयति केनापि नैव नमनीयान् ॥ अत्र नञ्जेन्द्रो मृदुलप्रकृतिनै भवतीति वदतो वैरिणः प्रति प्रत्युक्तिरूपे तमात्यवचने प्रस्तुते (त?) मृदुलप्रकृतित्वरूपवस्तुनः कृतिनायकनिष्ठस्य प्रतिषेधोभासा ( बाधा ?) दाभासीभवन स्वचरणनम्रनरपतिमकुटेषु केनाप्यजय्यत्वसम्पादननिदर्शनानञ्जराज एव मृदुलप्रकृतिर्नेतर इति प्रतिपादनपुरःसरं यूयमपिस्थिरतरश्रियः सम्पादनाय तत्पदयोनतिं कुरुतेत्यर्थविशेषमाक्षिपति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy