SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ नञ्जराजयशोभूषणम् | तत्र केवलप्राकरणिकयोर्यथा - कळुलेनञ्जराजेन्द्र भवतः पुरतोरणः । चित्ररेखाङ्गनाक्रान्तस्तनुते पश्यतां मुदम् ॥ अत्र नजेन्द्र चित्ररेखाङ्गनाक्रान्तः - चित्ररेखानिर्मिताङ्गनाक्रान्तः भवतः पुरतोरण: - नगरबहिर्द्वारम् । अन्यत्र चित्ररेखाङ्गना - चित्ररेखा नाम सुराङ्गना तथा क्रान्तो भवतो रणः पुरतः - अग्रे मुदं तनुते । भावयतां प्राक् प्रवृत्तोऽप्यद्यापि पुरतो दृश्यमान इव मुदं विधत्त इत्यर्थः । तथा च रणनगरतोरणयोः प्रकृतयोः श्लेषः प्रकृतगोचरः । अप्रकृतगोचरो यथा - २०२ [ विलास. ७ मयूखालीढभुवनं चित्रभानुं हसन्नयम् । ककुलेन भूपाल त्वत्प्रतापो विराजते ॥ अत्र चित्रभानुपदेन 'सूर्यो वह्निश्चित्रभानु' रिति कोशानुशिष्टसूर्याग्नी अप्रकृत्वेन गृह्येते । मयूखालीढभुवनं - किरणाक्रान्तप्रपञ्चं ज्वालावलीढसलिलं चेत्यर्थद्वयं क्रमेण सूर्याइयोविंशेषणम् । द्वयोरप्यप्रकृतयोः श्लेषात् अप्रस्तुतगोचरत्वम् । निरुक्तोभयस्थलेऽपि न ध्वनित्वशङ्का । अर्थद्वयप्रतिपादने प्रस्तुतत्वेन अन्यत्वेन वैषम्याभावात् अभिधाया एव सामर्थ्यात् । तृतीयं यथा विष्वक्सेनोर्जितख्यातिर्विक्रमाक्रान्तविष्टपः । देवराजानुजो भाति नञ्जभूपालशेखरः । अत्र प्रकृता प्रकृतयोर्नञ्जराजविष्ण्वोः श्लेषः । अयञ्च श्लेषो द्विविधः । शब्दश्लेषोऽर्थश्लेषश्चेति । ननु शब्दश्लेषस्थले प्रयत्नादिभेदात् स्फुट एव शब्दभेद् इति चेत् । सत्यम्, भेदोऽस्ति । तथाऽपि जतुकाष्ठन्यायेन शब्दयोरितरेतरश्लिष्टत्वाच्छब्द्गतत्वव्यवहारः । अत एव शब्दश्लेषे भङ्गसहिष्णुता । अर्थश्लेषे तु प्रयत्नादिभेदस्य शब्दभेदकस्याभावेन शब्दैक्यनिश्चये सति एकनालावलम्बिफलद्वयन्यायेन श्लिष्टत्वमर्थयोरिति शब्दविपरिवृत्ययोग्यत्वम्, भङ्गासहिष्णुत्वश्चेत्यालङ्कारिकरहस्यम्, यदत्र प्रकृताप्रकृतोदाहरणे शब्दशक्तिमूलकध्वनिमिच्छन्ति प्राञ्चः, तत् प्रकृताप्रकृताभिमानमूलकस्योपमालङ्कारस्य व्यङ्ग्यत्वाभिप्रायम् । अप्रकृतार्थस्यापि शक्त्या प्रतिपाद्यस्यावश्यंभावेन वृत्थनपेक्षणादित्यलं बहुना । उत्तरयोरर्थश्लेष इति विवेक: । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy