________________
विलास. ७ ]
२०१
अत्र वध्वा अप्रकृतशरद्विभ्रमासम्भवेन विभ्रमसदृशविभ्रमः समाक्षिप्यत इति बिम्बप्रतिबिम्बनम् । द्वितीयं यथा-
नञ्जभूपाल नगरीजलजाक्षीजनश्रियम् । वहन्ति सततोल्लासाः पुरन्दरपुरस्त्रियः ॥
अलङ्कारप्रकरणम् ।
अत्राप्रकृत पुरन्दरस्त्रीषु प्रकृतश्री सम्बन्धासम्भवात् तत्सदृशश्रीराक्षिप्यत इति प्रतिबिम्बकरणम् । उपमानक्रियायाउपमेये स्वसदृश क्रियान्तरबोधनमपि निदर्शनाविशेषः । यथा
रजोगुणस्यैव फलं तदेतत् मित्रप्रकाशव्यवधाविधानम् । इतीव सम्बोधयितुं दिनेशं रुन्धन्ति नवेन्द्रचमूरजांसि ॥ 'भेदप्रधानसाधर्म्यमुपमानोपमेययोः । आधिक्याल्पत्वकथनाद्वयतिरेकः स उच्यते ॥'
यत्रोपमानादुपमेयस्याधिक्येनाल्पतया वा निरूपणेन भेदप्रधानं साधर्म्य गम्यते स व्यतिरेकालङ्कारः । यथा
नञ्जक्षितीन्द्रस्य यशोनुषङ्गात् दोषाकरस्यापि गतः कलङ्कः । तदीयवैरिप्रमदामुखानां मालिन्यभारो नितरां बभूव ॥ अत्रोपमेयमुखन्यूनता उपमेयाधिक्यं यथा
नञ्जक्षितीन्द्रस्य कृपाणधारा कलिन्दकन्येव कठोरवेगा । परन्तु हृप्यलभद्रवाहाविजृम्भवृत्तेरसहिष्णुरास्ते ॥ अत्रोपमेयखड्गधाराया हप्यइलभद्रवाहाविजृम्भवृस्य सहिष्णुत्वरूपधर्मेणोपमानी भूतकलिन्दकन्यापेक्षयाऽऽधिक्यम् ।
'प्रकृताप्रकृतोभयगतमुक्तं चेत् शब्दमात्रसाधर्म्यम् । श्लेषोऽयं श्लिष्टत्वं सर्वत्रायद्वये नान्त्ये ॥'
यत्र केवलप्रकृतयोर्वा केवलाप्रकृतयोर्वा श्लेषो भवति तत्र प्रकारद्वयेऽपि विशेषणविशेष्यश्लिष्टता । प्रकृताप्रकृतविषये विशेषणमात्रश्लिष्टता । विशेष्ययोरपि श्लिष्टत्वे शब्दशक्तिमूलकध्वनित्वप्रसङ्गात् । तदेवं त्रिविधः श्लेषः ।
२६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com