________________
१५८
नजराजयशोभूषणम् ।
[विलास. ७ या सौंभमदभङ्गा । सोम्भो नामासुरः। तत्सम्बन्धी सौम्भः यो मदः तस्य भङ्गः । स एव आयः शुभावहविधिः तमयत इति सौम्भमभङ्गायाया दैत्यविशेषसंहारिणीत्यर्थः । या रेखात्मशशिश्रिया । रेखाकारचन्द्रकान्त्या आढ्या सम्पन्ना चन्द्रकलाधारिणीत्यर्थः । अगुः न विद्यते गावः यावत्स्वरूपप्रतिपादकशब्दा यस्याः सा अगुः । एच इग्घ्रस्वादेशः।वाचामगोचरेत्यर्थः। या रुद्रजाया । आशिभाः आशिन्यः व्याप्ताः भासः कान्तयः यस्याः सा। त्रिजगद्व्याप्तेत्यर्थः । ता(ए?)ष्यदां । एष्या एष्णीया आशंसिनीया इत्यर्थः । तानर्थान् ददातीति एष्यदां आशंसितसकलफलप्रदामित्यथः। तां धिया बुद्ध्या अय प्राप्नुहि भावयेत्यर्थः । ईगतावितिधातोर्लटि मध्यमपुरुषैकवचनम् । ___ अत्राष्टदलपद्मोद्धारक्रमः । अष्टदलपनं लिखित्वा कर्णिकायां या इति वर्ण विलिख्य द्वितीयवर्णमेकस्मिन् दले विलिख्य उत्तरवर्णद्वयं दलद्वयान्तराले विलिख्य [ दलान्तरे उत्तरवर्णमेकं विलिख्य दलद्वयान्तराले तदुत्तरवर्णद्वयं विलिख्य ] कर्णिकागतवर्ण द्विरुच्चार्य अनन्तरवर्णानेवमेव विलिखेत् । द्वितीयवर्णमारभ्य दलमात्रलिखितवर्णसमुदायपठने सौन्दरेशगुरुशिष्य इति कृतिनायकसम्बोधनं भवति । यहा तत्र (त्रित्रि ?) वर्णान् दलेषु विलिख्य प्रथमवर्णसमुदायपठनं वा । प्रकारान्तरेण अष्टदलपद्मबन्धलेखनं भवति । यथा
रापांधिप्ताससभ्यावितशुभमतिरा ज्यारवत्रासितारा
रातासित्रावर ज्याऽस्तु तव महधरार्याव पक्ष्माजनं रा। रा नञ्जमाप वर्या महितफलकिरा प्राविदश्रीयमारा
रामाय श्रीद विप्राश्रित शिशिरकराभ्यास सताब्धिपारा ॥ राः दातारः ताः(?) पातीति रापः स चासावधिश्चेति रापाब्धिः क्षीरसागर इति यावत् । तस्य ताः कचसमुदायाः । ताभिः ससभ्यः समानसमाप्रवेशी, गाम्भीर्यनर्माल्यादिगुणैः क्षीरसमुद्रेण शिरसा इलाघनीय इत्यथः । तस्य सम्बुद्धिः । अवितशुभमंतिराः । अवितानि रक्षितानि शुभानि यया सा मतिः तां रातीति अवितशुभमतिराः। ज्यारवत्रासिताराराता-ज्यारवैः मौर्वानिनादः त्रासितं-भीषितं-आरातं अरातिसमूहः । अरातिशब्दात्समूहार्थेऽण् । तस्य सम्बुद्धिः ज्यारवत्रासितारारात । असित्रावर असिभिस्त्रायते आत्मानमित्यसित्राः शूराः, तानवरयति अघरयतीति तथोक्तः, तस्य सम्बुद्धिः, सर्वापेक्षया शूर इत्यर्थः । रामाय । रामाः स्त्रियः तासामयः शुभविधिः स्त्रीणां नेत्रप्रियकर
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com