________________
विलास..]
अलङ्कारप्रकरणम् ।
शस्त्राशस्त्रिविखण्डिताहितशिरोरुण्डैः प्रचण्डक्रमः
वैधात्रस्य मुनर्मदं विदधते नञ्जक्षमाभृद्भटाः। तात्पर्यमेव भिन्नं स्यान्न तु शब्दार्थयोर्भिदा।
तयोर्यत्पुनरुक्तिः स लाटानुप्रास इष्यते ॥ यथासकलकलारसिकमतौ दातरि ननक्षमापते भवति । सम्प्रति कवयः कवयो भासन्ते धरणिमभितोऽपि॥
पुनरुक्तवदाभाति यत्रार्थो न तु तत् पदम् ।
पुनरुक्तवदाभासः स नामाख्यातगो द्विधा ॥ अत्र नामगतपुनरुक्तवदाभासो यथा
शक्तिमांश्च महासेनो धाताऽपि चतुराननः ।
राजराजोऽपि धनदो राजते नञ्जभूपतिः ॥ आख्यातगतपुनरुक्तवदाभासो यथा
कल्पते जेतुमिन्द्रं श्रीनञ्जेन्द्र शशिकल्प ते ।
मन्दतेजाभवत्कान्त्या भास्वान् व्योमनि मन्दते ॥ मन्दते गच्छतीत्यर्थः । मदिस्तुतिमोदमदस्वमकान्तिगतिषु इति धातुः।
_ 'यमकं पौनरुत्तये नु स्वरव्यञ्जनयुग्मयोः । ।
छेकानुप्रासे वृत्त्यनुप्रासे च स्वरपौनरुत्तयमानुषङ्गिकम् । यमके तु सस्वरयोय॑जनयुग्मयोरेवावृत्तिः । तस्य आदिमध्यान्तगतत्वेन बहवो भेदाः । तत्र दिङ्मात्रमुदाहियते । यथा
नजेन्द्र धरणीरत्न धनञ्जयधुरन्धर ।
देहि नित्यं मनीषिभ्यो धनं जय धुरं धर ॥ अत्र धनं देहि जय धुरं धर भारं वह इत्युत्तरार्धे । पूर्वार्धे तु घनञ्जय घुरन्धर-श्रेष्ठ, इत्यर्थः।
'पद्माद्याकारहेतुत्वे वर्णनां चित्रमुच्यते ।" आदिग्रहणात् हारबन्धादयः । तत्राष्टदलपद्मबन्धो यथा
या सौम्भमभङ्गायाया रेखात्मशशिश्रिया। याऽगुराख्या रुद्रजायायाऽऽशिभाएष्यदां धिया ॥
१५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com