SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ विलास..] अलङ्कारप्रकरणम् । शस्त्राशस्त्रिविखण्डिताहितशिरोरुण्डैः प्रचण्डक्रमः वैधात्रस्य मुनर्मदं विदधते नञ्जक्षमाभृद्भटाः। तात्पर्यमेव भिन्नं स्यान्न तु शब्दार्थयोर्भिदा। तयोर्यत्पुनरुक्तिः स लाटानुप्रास इष्यते ॥ यथासकलकलारसिकमतौ दातरि ननक्षमापते भवति । सम्प्रति कवयः कवयो भासन्ते धरणिमभितोऽपि॥ पुनरुक्तवदाभाति यत्रार्थो न तु तत् पदम् । पुनरुक्तवदाभासः स नामाख्यातगो द्विधा ॥ अत्र नामगतपुनरुक्तवदाभासो यथा शक्तिमांश्च महासेनो धाताऽपि चतुराननः । राजराजोऽपि धनदो राजते नञ्जभूपतिः ॥ आख्यातगतपुनरुक्तवदाभासो यथा कल्पते जेतुमिन्द्रं श्रीनञ्जेन्द्र शशिकल्प ते । मन्दतेजाभवत्कान्त्या भास्वान् व्योमनि मन्दते ॥ मन्दते गच्छतीत्यर्थः । मदिस्तुतिमोदमदस्वमकान्तिगतिषु इति धातुः। _ 'यमकं पौनरुत्तये नु स्वरव्यञ्जनयुग्मयोः । । छेकानुप्रासे वृत्त्यनुप्रासे च स्वरपौनरुत्तयमानुषङ्गिकम् । यमके तु सस्वरयोय॑जनयुग्मयोरेवावृत्तिः । तस्य आदिमध्यान्तगतत्वेन बहवो भेदाः । तत्र दिङ्मात्रमुदाहियते । यथा नजेन्द्र धरणीरत्न धनञ्जयधुरन्धर । देहि नित्यं मनीषिभ्यो धनं जय धुरं धर ॥ अत्र धनं देहि जय धुरं धर भारं वह इत्युत्तरार्धे । पूर्वार्धे तु घनञ्जय घुरन्धर-श्रेष्ठ, इत्यर्थः। 'पद्माद्याकारहेतुत्वे वर्णनां चित्रमुच्यते ।" आदिग्रहणात् हारबन्धादयः । तत्राष्टदलपद्मबन्धो यथा या सौम्भमभङ्गायाया रेखात्मशशिश्रिया। याऽगुराख्या रुद्रजायायाऽऽशिभाएष्यदां धिया ॥ १५ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy