________________
विलास. ७] अलङ्कारप्रकरणम्।
१५५ मानौपम्याः, केचित् प्रतीयमानरसभावादयः, केचिदस्फुटप्रतीयमाना इति । समासोक्तिपर्यायोक्त्याक्षेपव्याजस्तुत्युपमेयोपमानानन्वयातिशयोक्तिपरिकराप्रस्तुतप्रशंसाऽनुक्तनिमित्तविशेषोक्तिषु प्रतीयमानं वस्तु काव्योपस्कारतामुपयाति। रूपकपरिणामसन्देहभ्रान्तिमदुल्लेखापह्नवोत्प्रेक्षास्मरणतुल्ययोगितादीपकप्रतिवस्तूपमादृष्टान्तसहोक्तिप्रतीपव्यतिरेकनिदर्शनाश्लेषेष्वौपम्यं गम्यते । रसवत्प्रेय ऊर्जस्विसमाहितभावोदयभावसन्धिभावशबलतासु रसभावादिय॑ज्यते । उपमाविनोक्तार्थान्तरन्यासविरोधविभावनोक्तगुणनिमित्तविशेषोक्तिविषमसमचित्राधिकान्योन्यकारणमालैकावलीव्याघातमालादीपककाव्यलिङ्गानुमानसारयथासङ्ख्यापत्तिपर्यायपरिवृत्तिपरिसङ्ख्याविकल्पसमुच्चयसमाधिप्रत्यनीकमतीपविशेषमीलनसामान्यसङ्गतितद्गुणातद्गुणव्याजोक्तिवक्रोक्तिस्वभावोक्तिभाविकोदात्तेषु सहृदयहृदयास्वादि स्फुटं प्रतीयमानं नास्ति । अत्रेत्थमलङ्कारकक्ष्याविभागः।
__ साधयं त्रिविधम् । भेदप्रधानमभेदप्रधानं भेदाभेदप्रधानं चेति । उपमानोपमेययोः स्वतो भिन्नत्वात् शाब्दमेतन्नावाप्तम् । रूपकपरिणामसन्देहभ्रान्तिमदुल्लेखापहवानामभेदप्रधानसाधर्म्यमूलता । उत्प्रेक्षातिशयोक्ती अध्यवसायमूले। विभावनाविशेषोक्तिविषमविचित्रासङ्गत्यन्योन्यव्याघातातद्गुणभाविकविशेषाणां विरोधमूलता । यथासङ्ख्यपरिसङ्ख्यार्थापत्तिविकल्पसमुच्चयानां वाक्यन्यायमूलता । पर्यायपरिवृत्तिप्रत्यनीकतद्गुणसमस्वभावोत्तयुदात्तविनो. क्तयो लोकव्यवहारमूलाः। काव्यलिङ्गानुमानार्थान्तरन्यासास्तर्कन्यायमूलाः । करणमालेकावलीमालादीपकसाराः शृङ्खलावैचित्र्यमूलाः । व्याजोक्तिवक्रोक्तिमीलनान्यपह्रवमूलानि । समासोक्तिपरिकरौ विशेषणवैचित्र्यमूलौ ।
अथालङ्काराणां परस्परवैलक्षण्यं निरूप्यते ।
आरोपगत्वेऽप्यारोप्यमाणगर्भस्य प्रकृतोपयोगानुपयोगाभ्यां परिणामरूपकयोर्भेदः। आरोपविषयस्यारोप्यमाणसंभवासंभवाभ्यामुल्लेखरूपकयोर्भेदः। भारोपविषयस्य सन्देहभ्रान्त्यपहवैः सन्देहभान्त्यपहवानां परस्परभेदः । साधयंमूलत्वेऽपितुल्ययोगितादीपकनिदर्शनाव्यतिरेकदृष्टान्तेभ्यःसाधर्म्यस्यवाच्यस्वादुपमानन्वयोपमेयोपमा भियन्ते । साधारणधर्मस्य वाच्यत्वगम्यत्वाभ्यामुपमेयोपमाप्रतिवस्तूपमयोर्मेदः । वस्तुप्रतिवस्तुबिम्बप्रतिविम्वभावाभ्यां प्रतिवस्तूपमादृष्टान्तयोर्भेदः । प्रस्तुतापस्तुलानां व्यस्तसमस्ताभ्यां तुल्पयो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com