________________
१५४ नजराजयशोभूषणम् ।
[विलास. ७ तदेवं फलागमकार्ययोः सन्धिः साङ्गो निर्वहणसन्धिः ।
रत्नाकरः-तदिदानीमा क्षतारोपणमाङ्गलिकनीराजनादिमहोत्सवानुभवाय कन्यया सह कनकसिंहासनमधितिष्ठतं भगवन्तं द्रष्टुमुत्कण्ठिताः स्मः।
कन्या-[स्वगतम् ] अणुमदं मे। राजा-परमम्
(इति निष्कान्ताः सर्वे पञ्चमोऽङ्कः)
इति चंद्रकलाकल्याणे इति श्रीपरमशिवावतारशिवरामदेशिकचरणारविन्दानुसन्धानमहिमसमासादितनिस्सहायदैनन्दिनप्रबन्धनिर्माणसाहसिकनिखिलविद्वज्जनलालनीयसरससाहितीसम्प्रदायप्रवर्तकनरसिंहकविरचितेनझराजयशोभूषणे
अलंकारशास्त्रे नाटकप्रकरणं नाम षष्ठोल्लासः॥
अथ सप्तमो विलासः।
करुणारसकल्लोलकलितापाङ्गवीक्षणम् ।
कन्दर्पजनकं धाम कल्याणानि करोतु नः॥ अथ काव्यमुख्यार्थभूतस्य रसस्य समवायवृत्त्या रसोपस्कारगुणनिरूपणानन्तरं संयोगवृत्त्या रसोपस्कारकालङ्कारनिरूपणं क्रियते । अलङ्कियतेऽनेनेति चारुत्वातिशयहेतुरलङ्कारः । तथोक्तं काव्यप्रकाशे
'उपस्कुर्वन्ति तं सन्तं योऽङ्गबारेण जातुचित् ।'
हारादिवदलकारास्तेऽनुप्रासोपमादयः॥ यथा करचरणाचवयषगलवलयनपुरादिभिस्तदलकृतितया प्रसिद्धरवयव्येवाग्लड्रियते तथैव शब्दार्थावयवगतैरनुप्रासोपमादिभिस्तदलङ्कारतया प्रसिटैरवयविभूतं काव्यमेनोपस्कियते । आश्रयाअयिभावेनालङ्कार्यालङ्कारकभावो लोकवत् काव्येऽपि सम्मान तथा चालकारः शब्दार्थोमयगतत्वेन विविधः। अर्थालङ्काराणां चातुर्विध्यम्-केचित प्रतीयमानवस्तवा, केचित् प्रतीय
(ग) ममतं मे।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com