________________
विलास. ६]
नाटकप्रकरणम् ।
१५३
पुरोधाः (लाजहोमादिकं यथावत्कारयति) कन्या-(स्वगतम् )
चंदो अजव्व हिमंसू सुरहिअ अजव्व महुमासो। अजव्य कुसुमधणुहो महणो मह णाहहत्थलग्गाए । अनेन आर्तेरुपशमकथनात् समयो नामाङ्गम् ।
आतैरुपशमोः यः स्यात् समयः परिकीर्तितः । रत्नाकरः-(सानन्दं) राजन् । राजकुलतिलक दुःसाधां मे पूरयित्वा प्रतिज्ञां राज्ञां मध्ये जातकन्यामणीनाम् । श्लाघायोग्यं कुर्वतो मामिदानीं भूयः किं वा कल्पयामि प्रियं ते ॥
अनेन कार्यार्थस्योपसंहृतिकथनादुपसंहारो नामाङ्गम् ।
कार्यार्थस्योपसंहारो यस्तु सैवोपसंहतिः। अस्यैव समर्थफलसम्पत्तिसूचकत्वात् फलागमो नामार्थस्थितिः। समग्रफलसम्पत्तिः फलागम उदाहृतः । इति । राजा
ज्योतिर्मयेशदेवस्य सविशेषप्रसादतः। त्रिलोक्यमान्या लब्धेयमितोऽप्याशास्यमस्ति किम् ॥ अनेन वाञ्छितार्थप्राप्तिकथनादानन्दो नामाङ्गम् ।
वान्छितार्थस्य सम्प्राप्तिरानन्द इति गीयते । अस्यैव मुख्यार्थत्वात् कायं नामार्थस्थितिः ।
मुख्यार्थो यस्तु कथितः कार्य तदिति कीर्त्यते। तथाऽपीदमस्तु भरतवाक्यम्
वाणीयं भुवि वर्धतां बुधजनश्लाघ्या त्रिलोकीजुषां ..... .सौभाग्यैकनिकेतनश्च शशिनो वंशः सदा वर्धताम् ।
....: देवश्चन्द्रकलाधरश्च दयया निर्व्याजमाप्यायिती ... . . नित्यं नामहीमहेन्द्रहृदये वासं विधत्तां मुदा ॥ ...... ..
· अनेन शुभप्रशंसाकथनात् प्रशस्तिर्नामाङ्गम् ।
शुभप्रशंसनं सम्यक् प्रशस्तिरिति गीयते । (छा) चंद्रोऽद्यैव हिमांशुः सुरभिरद्यैव मधुमासः । अद्यैव कुसुमधनुः मदनो मम नाथहस्तलमायाः। २०-२१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com