SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ विलास. ६] नाटकप्रकरणम् । १५३ पुरोधाः (लाजहोमादिकं यथावत्कारयति) कन्या-(स्वगतम् ) चंदो अजव्व हिमंसू सुरहिअ अजव्व महुमासो। अजव्य कुसुमधणुहो महणो मह णाहहत्थलग्गाए । अनेन आर्तेरुपशमकथनात् समयो नामाङ्गम् । आतैरुपशमोः यः स्यात् समयः परिकीर्तितः । रत्नाकरः-(सानन्दं) राजन् । राजकुलतिलक दुःसाधां मे पूरयित्वा प्रतिज्ञां राज्ञां मध्ये जातकन्यामणीनाम् । श्लाघायोग्यं कुर्वतो मामिदानीं भूयः किं वा कल्पयामि प्रियं ते ॥ अनेन कार्यार्थस्योपसंहृतिकथनादुपसंहारो नामाङ्गम् । कार्यार्थस्योपसंहारो यस्तु सैवोपसंहतिः। अस्यैव समर्थफलसम्पत्तिसूचकत्वात् फलागमो नामार्थस्थितिः। समग्रफलसम्पत्तिः फलागम उदाहृतः । इति । राजा ज्योतिर्मयेशदेवस्य सविशेषप्रसादतः। त्रिलोक्यमान्या लब्धेयमितोऽप्याशास्यमस्ति किम् ॥ अनेन वाञ्छितार्थप्राप्तिकथनादानन्दो नामाङ्गम् । वान्छितार्थस्य सम्प्राप्तिरानन्द इति गीयते । अस्यैव मुख्यार्थत्वात् कायं नामार्थस्थितिः । मुख्यार्थो यस्तु कथितः कार्य तदिति कीर्त्यते। तथाऽपीदमस्तु भरतवाक्यम् वाणीयं भुवि वर्धतां बुधजनश्लाघ्या त्रिलोकीजुषां ..... .सौभाग्यैकनिकेतनश्च शशिनो वंशः सदा वर्धताम् । ....: देवश्चन्द्रकलाधरश्च दयया निर्व्याजमाप्यायिती ... . . नित्यं नामहीमहेन्द्रहृदये वासं विधत्तां मुदा ॥ ...... .. · अनेन शुभप्रशंसाकथनात् प्रशस्तिर्नामाङ्गम् । शुभप्रशंसनं सम्यक् प्रशस्तिरिति गीयते । (छा) चंद्रोऽद्यैव हिमांशुः सुरभिरद्यैव मधुमासः । अद्यैव कुसुमधनुः मदनो मम नाथहस्तलमायाः। २०-२१ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy