________________
१५२ नजराजयशोभूषणम्।
[विलास. ६ पद्यैरत्र परिष्टुवन्ति महितैरानन्दिनो वन्दिनः
केचिच्छिल्पकृतस्तु यन्त्रनिवहैष्ठात्कारयन्ते दिशः ॥
(प्रविश्य पटाक्षेपेण मध्येमागं पुरुषः प्रणम्य) देव, कावेरीसिन्धुसङ्गमे द्वीपान्तराचण्डानिलानीतं किमपि रत्नपूर्ण यानपात्रं श्वेताचलदुर्गसमीपदृष्टो निधिश्चेत्युभयमपि देवस्य महोत्सव इति तदधिकारिभ्यां प्रेषितं वर्तते।
पुरोधा:-देवताया लक्ष्म्या अवतारायाः कन्यकायाः परिगृहसमये समागत एव निधिः।
(इति प्रशंसति) राजा-(अमात्यं प्रति) तदुभयमपि विभज्य दीयतामुत्सवसमयसमुदितेभ्यो द्विजेभ्यः।
अमात्यः-यदादिशति महराजः (इति निष्क्रान्तः)
परिजन:-अयं पुनः सम्बन्धिराजो रत्नाकरो देवं प्रत्युद्गच्छति (प्रविश्य सानन्दं रत्नाकरः)
चिरन्तना ये मम वंशवृद्धास्तपोविशेषैः परिचेरुरम्बाम् । तेषां फलं सम्प्रति जातमास्ते सम्बन्धरूपं शशिनः कुलेन ॥
तदिदानी जामातरं राजानं कन्यान्तःपुरमधिनीय प्रकृतं साधयामि । (परिक्रम्य राजानमुपसृत्य ) इयं कन्याभिरलङ्कतस्यान्तःपुरस्य सरणिः ।
राजा-(गजादवतीर्य सपरिवारः कन्यान्तःपुरप्रवेशं नाऽयति) रत्नाकरः--महाराज, इयमियं कल्याणवेदिका परिष्क्रियताम् ।
राजा (तथाकुर्वन् पुरोधसं परिजनं च यथोचितमुपवेष्टुमनुमनुते । सर्वे यथोचितमुपविशन्ति)
रत्नाकरः-भोः कञ्चुकिन् , कन्या समानीयताम् । कञ्चुकी--तथेति (निष्क्रम्य कन्यया सह पुनःप्रविशति ) पुरोधा:--रत्नाकर, समयोऽयं महोत्सवस्य । रत्ना सजोऽस्मि (इति कन्यामङ्कतटे कुर्वन् )
कळले पुरवाराशिपूर्णेन्दो नञ्जभूपते । प्रतीच्छ कन्यकामेनां कल्याणगुणशालिनीम् ॥
(इति तस्याः करं राज्ञो वरस्य करे अर्पयति) राजा--(स्वगतम् ) लब्धमनोरथोऽस्मि ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com