SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ विलास. ६] नाटकप्रकरणम्। १५१ बन्दीगृहोन्मुक्तनुपालवगैः सम्बन्धिराजेन च मङ्गलाय । सम्प्रेषितो भूषणराशिरास्ते कस्मिन् विभोरद्य मनः प्रमाणम् ॥ राजा-नृपतिभिर्यः प्रेषितःस समानीयताम्। अन्यः पुनरथ भविष्यति। सर्वे--अहो, परकीयगुणग्राहिता देवस्य । अमात्यः-(कञ्चुकिनं प्रति) रत्नभूषणभाजनपाणिः पुरुषः प्रवेश्यताम् । कञ्चुकी तथेति (निष्क्रान्तः) (प्रविश्य यथोक्तः पुरुषो राजानं यथाविधि भूषयित्वा निष्क्रान्तः) __ (नेपथ्ये मङ्गलतूर्यघोषो द्विजाशिषश्च) राजा-सपरिवारः सत्वरं शिबिरादहिरागच्छति । परिजन: एते विनम्रमकुटीमणिकान्तिपूर लाक्षारसार्णवनिमजितराजमार्गाः। व्यालोलभूषणझणत्कृतिपूरिताशाः स्वामिन्नमन्ति नरपालगणा भवन्तम् ॥ अमात्य:-अये कः कोऽत्र भोः । कुञ्जरः समानीयताम् । (प्रविश्य कुञ्जरेण सह पुरुषो राजानं प्रणमति) परिजन:-देव दृश्यताम् । कुम्भस्थले समधिरोप्य सृणिं शिताग्रं शुण्डां प्रकामपृथुलां भृशमुन्नमय्य । आकुञ्चिताग्रपदमुद्गतबृंहितं च स्वामिन् प्रणम्रयति कुञ्जरसार्वभौमः ॥ अमात्यः-सफलीक्रियतां सज्जोऽयं वारणराजः । अनेन पर्युपासनरूपः प्रसादो नामाङ्गं सूच्यते। पर्युपासनमार्याणां प्रसाद इति गीयते इति । (राजा-तथेति गजारोहणं नाटयति) परिजनः-महाराज, अद्यहिसौधस्थाः कुसुमैः समं मृगदृशो वर्षन्ति लाजान बहून् नृत्यन्त्यत्र समं च मद्दलघनध्वानेन वाराङ्गनाः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy