SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १५० नञ्जराजयशोभूषणम् । वात्सल्यं कथमीदृशं तव मयि ज्योतिर्मयेशोदितं यद्यत्नादभिकाङ्गतो गजमुखः षाण्मातुरश्चान्वहम् ॥ पुरोधाः - विनयः खलु भूषणं भवादृशानाम् । परमार्थतः पुनर्भवान्न नरपतिसाधारणः । किन्तु सक्षादेव श्रीपतेरवतारः । किञ्च । ककुलेन्नृपति कुलजतिमात्रस्यापि संरक्षणं नाम किमपि दैनंदिनत्रतं कुलदेवताया ज्योतिर्मयेशस्य, किं पुनर्निजैकशरणस्य भवतः । [ विलास. ६ अमात्यः - सत्यमुक्तं श्रीपतेरवतारः शिवैकशरणो देव इति । सत्स्वप्यनेकेषु राजसु भगवांश्चन्द्रचूडो धवलकमलमालिकाव्याजेन साक्षादिन्दिरांशावतारां कन्यामर्पितवान् । पुरोधाः - यदत्र दामनि यवाङ्करदर्शनमतो मन्ये न केवलं कन्याम् । किन्त्वचिरेण भविष्यन्तं कमपि पुत्रश्च । अमात्यः – इदमेवाशास्यमखिलजगताम् । तथाहिआज्ञा चेदखिलावनीपमकुटीकोटिप्रियं भावुका राज्यश्रीयदि निर्जराधिपतिनाऽप्यभ्यर्थनीया सदा । तत्तादृग्गुणभूषणस्य जयिनो नञ्जप्रभोः सन्ततेवृडिप्रार्थनतः किमन्यदखिलैराशासनीयं जनैः ॥ पुरोधाः - भवतु तथैव। अमोघनिर्गमाः खलु द्विजाशिषः । राजा -- ( साशंसम् ) शिरसि विभूषिता महीसुराशिषः । ( नेपथ्ये ) कुतुकाय देवस्य भवतु भास्वदभ्युदयः । अद्य खलुवेगेन प्रतिसद्म निष्कुटमहीनिद्रायिताः पद्मिनीस्त्वत्पाणिग्रहणोत्सवं कथयितुं नूनं करैर्बोधयन् । मीलत्पङ्कजबन्धनालयगतानिन्दीवरान्मोचय नुद्यद्विदुमपल्लवच्छविरसावभ्युज्जिहीते रविः ॥ ( प्रविश्य वेत्रमाघट्टयन् कञ्चुकी) देव, देवी विज्ञापयति । समागतो महोत्सवसमयस्त्वर्यतामिति । राजा - यदाह मम हृदयं देवी । ( अमात्यं प्रति ) तदानीयतां प्रसाघनविधिः । अमात्यः- देव Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy