SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १४९ विलास. ६] नाटकप्रकरणम् । तुर्यकोटिपरिणद्धकौतुकाः (१) कन्यकां प्रतिगृहं पुराङ्गनाः। प्रापयन्ति नवरत्नभूषणैर्भूषयन्ति रचयन्ति चाशिषः ॥ अनेन नायिकापरिणयस्येष्टत्वसूचनापूर्वभावो नामाङ्गम् । इष्टार्थदर्शनं यत्तु पूर्वभावः स कीर्तितः । महोत्सवेनाप्यनतिचिरं वर्तमानेन भवितव्यम् । यतःबद्धयन्ते परितोऽपि तोरणगणा रत्नावलीनिर्मिताः कीर्यन्ते प्रतिवीथि लाजनिकरैः साकं प्रसूनानि च । नह्यन्ते कदलीद्रुमाः प्रतिगृहस्तम्भं वितानानि च स्त्यायन्ते प्रतिकायमानपटलं पौरैनितान्तादरैः ॥ आः कोऽयमिदानी कनकबिन्दुचित्रिताम्बरकुथः कुञ्जरः केनचिदाधोरणेन परस्य विभोः शिविरमनुनीयते । (विचिन्त्य ) स्मृतं स्मृतम् ।। सुवर्णपर्यवहो विलोलद्घण्टानिबद्धोभयपार्श्वभागः। शृङ्गारितोत्तुगतनुर्हि सोऽयं मार्तण्डनामा वरवारणेन्द्रः ॥ तत्तयामि महाराजः कळुलेपुरजलधिचन्द्रो नञ्जमहीन्द्रो रथ्यायां निर्गमिष्यतीति । दृष्टं च मया प्रणिधानेन परोऽपि महाराजः संप्रति पुरोधसा सचिवेन यथोचितपरिजनेन च परिवृतः क्रियमाणकौतुकमङ्गलः शिबिरमधिवसतीति । तद्भवतु । अग्रवर्तिनीमस्मत्स्वामिनीमुपसरामि । (इति निष्क्रान्ता) रङ्गनेपथ्यसंस्थायी पात्रसंलापविस्तरैः। आदौ केवलमङ्कस्य कल्पिता खण्डचूलिका ॥ (ततः प्रविशति यथानिर्दिष्टो राजा) पुरोधाःनृपकन्यकापरिणयात्तकौतुकं समुदीक्ष्य नक्षनरपालशेखरम् । धरणीसुताकरपरिग्रहोत्सुकं रघुनन्दनं स्मरति सर्वतो जनः ॥ राजा-(सानन्दम्) राजानः कति वा न सन्ति धरणीरक्षाधुरीणब्रताः तेषामन्यतमोऽहमस्म्यपि मया सञ्चिन्त्यसे वा न वा। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy