SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १४८ नजराजयशोभूषणम् । [विलास. ६ आभाषणमुपन्यस्तं प्राप्तकार्यानुमोदनम् । अरुन्धती-अत एव तस्य कळलेकुलजलधिकल्पतरोर्वीरराजसुकृतपरि. पाकस्य परस्य विभोः समक्षमेव परस्परमपवार्य दूयमानमनसां महीभृतामित्थमुदलसन्नालापाः। गन्धर्वयोगिनी-कथमिव । अरुन्धती धिक् त्वा पुमानिति मुधा भ्रमदन्तरङ्गः कन्याशया कथमिहागतवान्विलनः । भ्रातर्यथा त्वमहमागतवांस्तथैव प्रायः प्रकाशयति को नु जनः स्वदोषान् ॥ अनेन-अन्योन्यगर्हणं यत्तत्परिभाषणमुच्यते । इत्युक्तलक्षणं परिभाषणं नामाङ्गं सूच्यते । गन्धर्वयोगिनी-भवतु यथातथावा । किं निवृत्ता विबुधराज्ञी । अरुन्धती-नहि नहि । श्वो मौतिक पुरोगमविहिते त्रिभुवनक्षेमकरे वर्द्धमानहिमकरावलम्बिनि प्रातरेव दिवसे लग्ने महिते करिष्यमाणं तयोः पाणिग्रहणमहोत्सवमपि विलोक्य पूजिता पुनरागमिष्यति। अनेन नायिकाप्राप्तिरूपकार्यस्यानुगुण्येन पाणिग्रहणरूपार्थस्यारम्भसूचनाद्रथनं नामाङ्गम् । ___ अर्थस्यारम्भणं यत्तद्रथनं परिकीयते। गन्धर्वयोगिनी-तर्हि तत्समक्षमेव महोत्सवदर्शनसुखमनुभवितुं महीतलमवतरामि । (इति तथाकरोति) अरुन्धती-अहमपि श्वः प्रातराचरिताग्निहोत्रविधिनैव भगवता वसिठेन सह प्रजविना विमानेनैवामुमागत्य मत्पूजासमयं प्रतिपालयिष्यामि । (इति निष्कान्ता) : गन्धर्वयोगिनी-कथमवतीर्णमेव मया कुन्तलराजनगरम् । यत्रसौवर्णशृङ्गचरचारुकपोतकौघचविखण्डितघनाघनगर्भकोणः। सूक्ष्मैरियंजलकणैः कृतनीरयन्त्राहावली वितनुते कुतकं ममाक्ष्णोः यत: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy