________________
१४८ नजराजयशोभूषणम् ।
[विलास. ६ आभाषणमुपन्यस्तं प्राप्तकार्यानुमोदनम् । अरुन्धती-अत एव तस्य कळलेकुलजलधिकल्पतरोर्वीरराजसुकृतपरि. पाकस्य परस्य विभोः समक्षमेव परस्परमपवार्य दूयमानमनसां महीभृतामित्थमुदलसन्नालापाः।
गन्धर्वयोगिनी-कथमिव । अरुन्धती
धिक् त्वा पुमानिति मुधा भ्रमदन्तरङ्गः
कन्याशया कथमिहागतवान्विलनः । भ्रातर्यथा त्वमहमागतवांस्तथैव
प्रायः प्रकाशयति को नु जनः स्वदोषान् ॥ अनेन-अन्योन्यगर्हणं यत्तत्परिभाषणमुच्यते ।
इत्युक्तलक्षणं परिभाषणं नामाङ्गं सूच्यते । गन्धर्वयोगिनी-भवतु यथातथावा । किं निवृत्ता विबुधराज्ञी ।
अरुन्धती-नहि नहि । श्वो मौतिक पुरोगमविहिते त्रिभुवनक्षेमकरे वर्द्धमानहिमकरावलम्बिनि प्रातरेव दिवसे लग्ने महिते करिष्यमाणं तयोः पाणिग्रहणमहोत्सवमपि विलोक्य पूजिता पुनरागमिष्यति।
अनेन नायिकाप्राप्तिरूपकार्यस्यानुगुण्येन पाणिग्रहणरूपार्थस्यारम्भसूचनाद्रथनं नामाङ्गम् ।
___ अर्थस्यारम्भणं यत्तद्रथनं परिकीयते।
गन्धर्वयोगिनी-तर्हि तत्समक्षमेव महोत्सवदर्शनसुखमनुभवितुं महीतलमवतरामि । (इति तथाकरोति)
अरुन्धती-अहमपि श्वः प्रातराचरिताग्निहोत्रविधिनैव भगवता वसिठेन सह प्रजविना विमानेनैवामुमागत्य मत्पूजासमयं प्रतिपालयिष्यामि । (इति निष्कान्ता) : गन्धर्वयोगिनी-कथमवतीर्णमेव मया कुन्तलराजनगरम् । यत्रसौवर्णशृङ्गचरचारुकपोतकौघचविखण्डितघनाघनगर्भकोणः।
सूक्ष्मैरियंजलकणैः कृतनीरयन्त्राहावली वितनुते कुतकं ममाक्ष्णोः यत:
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com