SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ नाटकप्रकरणम्। विलास. ६ १४७ अनेन प्रकृतकार्यहेतुस्वप्नप्रसादवस्तुन उपक्षेपणात सन्धिर्नामाङ्गम् । बीजस्योपगमो यस्तु स सन्धिः कथ्यते बुधैः । अरुन्धती-अनन्तरमभवदम्बरचरनितम्बिनीनिकुरुम्बे कोऽपिकलकलः। गन्धर्वयोगिनी-कथमिव । अरुन्धतीप्रथमं विनिद्रनयनाब्जदामभिःसुदृशा वृतोऽजनि य एव वल्लभः । अवृणोन्मधूककुसुमस्रजा पुनः सुतनुस्तमेव ननु ननभूपतिम् ॥ अनेन प्रथमलब्धस्यार्थस्य पुनर्वर्णनेव स्थिरीकरणास्थितिर्नामाङ्गम् । लब्धस्य वस्तुनो यत्तु सा स्थिरीकरणं स्थितिः। गन्धर्वयोगिनी-अहो, अनुरूपवरसङ्घनचातुरी कुलदेवतायाः स्वर्णाम्बिकायाः। अरुन्धती-युक्तमुक्तम् । अत एवदिष्ट्या कुन्तलभूमिपालसदने जातैव लक्ष्मीः स्वयं दिष्ट्याऽस्या वरसङ्गहे कुतुकिनी गङ्गाधरस्याङ्गना। दिष्ट्या नाविभुं विलाससदनं कन्या वृणोति स्म सा दिष्ट्याऽद्यैव महोत्सवस्तु भवतीत्यानन्दसान्द्रं जगत् ॥ अनेनाद्भुतावेशसूचनदुपगृहनं नामाङ्गम् । अद्भुतार्थस्य सम्प्राप्तिरुपगृहनमुच्यते । गन्धर्वयोगिनी-समुचित एवानन्दः सर्वजगताम् । तादृशो महापुरुषो वरः कन्यकानामन्यथा कथं सम्भवेत् । पश्य । क गाम्भीर्य तादृक् क नु स विनयोऽनन्यसुलभः क वा भक्तिस्तावत्यनितरसमा चन्द्रमकुटे । कसा लावण्यश्रीर्मदनमहिता किं नु बहुना क चान्ये भूपाला नरपतिसभापूरणफलाः ॥ अनेन चन्द्रकलालाभानुगुण्येन प्राप्तकार्यस्य स्वयंवरस्यानुमोदनादाभाषणम् नामाङ्गम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy