SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १४६ नजराजयशोभूषणम् । [विलास. ६ किच-ज्योत्स्नेव कैरववनेषु सरोजराजि वामत्तहंसतरुणीव घनब्रजेषु । विद्युल्लतेव नृपपतिषु सा चरन्ती चान्द्री कलेव भुवि चन्द्रकला व्यलासीत् ॥ अनेन चन्द्रकलाप्रातिरूपकार्यानुगुण्येनानुभूतस्य स्वयंवररूपवस्तुनः प्रख्यापनान्निर्णयो नाम निर्वहणसन्धेरङ्गम् ।। निर्णयः स्वानुभूतार्थप्रख्यापनमुदीर्यते । गन्धर्वयोगिनी-अथ किं वृत्तम् । अरुन्धती-किमन्यत । 'यस्मिन् भवेयुरमराजदृशां वचोभिः श्लाघाः शतं सुमनसोऽपि करैर्विकीर्णाः । येनैव सर्वजगतां नयनोत्सवोऽभूत् तादृक स्वयंवरणकौतुकमाविरासीत् ॥ गन्धर्वयोगिनी-कस्य पुनर्महाभागजन्मनः समुदश्चितं भागधेयेन । अनेन स्वयंवररूपकार्यस्य प्रकृतानुगुण्येनान्वेषणाविरोधो नामाङ्गम् । कार्यस्यान्वेषणं यत्स्याद्विरोधः स उदाहृतः । अरुन्धती-तस्य नाम यस्मै प्रसीदति निरन्तरमिन्दुमौलिः ज्योतिर्मयः प्रथममेव पतिंवरायाः । यस्यापि सस्मितविलोकनपाणिप्रम स्पर्शादिभिः स्वयमभूदनुरागयोगः । अनेन मुखसन्ध्यादिसन्धिचतुष्टयकथितानां कुलदेवतारूपज्योतिर्मयदेवस्वमप्रसादकन्यकाविलोकनस्पर्शनाद्यर्थानां सूचनान्निर्वहणसन्धिः । बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथातथम् । एकार्यमुपनीयन्ते यत्र निर्वहणं मतम् ॥ गन्धर्वयोगिनी-तर्हि फलितमचिरादेवाभिनवयाः कुलदेवतायाः ज्योतिमेयदेवस्य तयैव स्वमप्रसादकल्पलतया ततस्ततः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy