SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ विलास. ६] नाटकप्रकरणम् । (गन्धर्वयोगिनी उपमृत्य ) अम्ब, तेजोभिस्तटितां पुत्रं रुन्धतीमप्यरुन्धतीम् । सरस्वतीस्नुषामेषा सेवते स्वरमञ्जरी ॥ [इति प्रणमति] अरुन्धती-अयि गन्धर्वयोगिनि योऽसाववाङ्मुखहृदम्बुजकोशकोटि- सूक्ष्माध्वभागवलदग्निशिखान्तरस्थः । ज्योतिर्मयो गुरुरनन्तगुणः परात्मा श्रेयः स ते वितनुतां धुरि भासतां च ॥ गन्धर्वयोगिनी-आर्ये, कुत आगम्यते । अरुन्धती आहूताऽस्मि किल प्रातरहममरराजपुरन्ध्या शचीदेव्याआर्ये महीतले कुन्तलराजेन प्रक्रम्यमाणं स्वकन्यास्वयंवरणमहोत्सवं भवत्या सह विलोकितुमिच्छामीति, दृष्टोत्सवा च पुनर्निवृत्ता। गन्धर्वयोगिनी-(स्वगतम्) ज्ञातं तदर्थमेवावतीर्णानि महीतले दिव्यविमानानि । (प्रकाशम्) आयें किं वृत्तं तत्र । अरुन्धती-अयि बहुवक्तव्यतया समयोऽतिवर्तते । श्रूयतां सङ्ग्रहेण । गन्धर्वयोगिनी-अवहिताऽस्मि । अरुन्धती नानादेशनृपालकास्त्रिभुवनप्रख्यातदोर्विक्रमा ___ गेहे कुन्तलभूपतेः समुदिता लावण्यपुञा इव । येषामाभरणश्रियैव गगने मेघप्रसक्तिं विना दिक्चक्रे तटितो नवामृतमयी वृष्टिश्च संजज्ञिरे । गन्धर्वयोगिनी-ततस्ततः । अरुन्धती अम्बां विभाव्य कुलदैवतमिष्टसिद्धयै __नत्वा शची तद्नु कुन्तलराजकन्या। तेषां ततिष्वपि गता दयितं वरीतुं माकन्दपङ्किषु यथा मधुमासलक्ष्मीः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy