________________
विलास. ६]
नाटकप्रकरणम् ।
(गन्धर्वयोगिनी उपमृत्य ) अम्ब,
तेजोभिस्तटितां पुत्रं रुन्धतीमप्यरुन्धतीम् । सरस्वतीस्नुषामेषा सेवते स्वरमञ्जरी ॥
[इति प्रणमति] अरुन्धती-अयि गन्धर्वयोगिनि
योऽसाववाङ्मुखहृदम्बुजकोशकोटि- सूक्ष्माध्वभागवलदग्निशिखान्तरस्थः । ज्योतिर्मयो गुरुरनन्तगुणः परात्मा
श्रेयः स ते वितनुतां धुरि भासतां च ॥ गन्धर्वयोगिनी-आर्ये, कुत आगम्यते ।
अरुन्धती आहूताऽस्मि किल प्रातरहममरराजपुरन्ध्या शचीदेव्याआर्ये महीतले कुन्तलराजेन प्रक्रम्यमाणं स्वकन्यास्वयंवरणमहोत्सवं भवत्या सह विलोकितुमिच्छामीति, दृष्टोत्सवा च पुनर्निवृत्ता।
गन्धर्वयोगिनी-(स्वगतम्) ज्ञातं तदर्थमेवावतीर्णानि महीतले दिव्यविमानानि । (प्रकाशम्) आयें किं वृत्तं तत्र ।
अरुन्धती-अयि बहुवक्तव्यतया समयोऽतिवर्तते । श्रूयतां सङ्ग्रहेण । गन्धर्वयोगिनी-अवहिताऽस्मि । अरुन्धती
नानादेशनृपालकास्त्रिभुवनप्रख्यातदोर्विक्रमा ___ गेहे कुन्तलभूपतेः समुदिता लावण्यपुञा इव । येषामाभरणश्रियैव गगने मेघप्रसक्तिं विना
दिक्चक्रे तटितो नवामृतमयी वृष्टिश्च संजज्ञिरे । गन्धर्वयोगिनी-ततस्ततः । अरुन्धती
अम्बां विभाव्य कुलदैवतमिष्टसिद्धयै __नत्वा शची तद्नु कुन्तलराजकन्या। तेषां ततिष्वपि गता दयितं वरीतुं माकन्दपङ्किषु यथा मधुमासलक्ष्मीः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com