SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १४४ नजराजयशोभूषणम्। [विलास. ६ अनेन कार्यनिश्चयकथनानियताप्तिामार्थस्थितिः । अपायाभावतः कार्यनिश्चयो नियताप्तिका । तद्भवतु।मत्प्रिययासंविभक्तशुभसन्तोषो भवेयम्।तनिर्दिश्यतांसरणिः। कञ्चुकी-इत इतः। अत्र कनकवर्मकथाप्रकृताव्यापित्वात् प्रकरी नामार्थस्थितिः । प्रकरी प्रकृतावा(व्या?)तां कथामाहुर्मनीषिणः । तदेवं नियताप्तिप्रकोः सन्धिः साङ्गो मुखसन्धिः । [इति निष्कान्ताः सर्वे ] इति चन्द्राकलाकल्याणे चतुर्थोकः । अथेदानीं निर्वहसन्धिः । तत्रादौ खण्डचूलिकां प्रस्तौति । [नेपथ्ये ] [ आकाशयानेन गन्धर्वयोगिनी ] अहं किल पूर्वेयुःसायममृतांशुमौलिमभिवन्दितुमखिलसुरवन्दितचरणारविन्दमहाराजमहेन्द्रप्रियसखस्य स्वामिनो गन्धर्वचक्रवर्तिनो विश्वावसोः प्रियकलत्रस्य किन्नरकण्ठ्याः सङ्गीतसतीर्थ्या स्वरमञ्जरी तदनुमता कुबेरशैलं गता । निवृत्ता च पुनरिदानी तटिनीमुपसरामि । (दिशो विलोक्य) किमिदानीम् । निष्पन्दविस्तृतपतत्रकमन्तरन्त (नाङ्गलि प्रचलितैनवराजहंसैः। आयोजितैर्मणिविमानगणैरिदानी ___कस्मान्महीमवतरन्ति सुपर्वकन्याः ॥ भवतु । अभ्यर्णमागतां विमानचारिणी पृच्छामि । (किश्चिद्गत्वा ) आः साक्षादित एवाभिवर्तते भगवत्यरुन्धती। (ततः प्रविशति यथोक्ताऽरुन्धती) नेपथ्य एव दमस्वसुर्यः प्रथमं प्रवृत्तः स्वयंवरो यस्त्वथ याज्ञसेन्याः । ततोऽपि नेत्रप्रियकृन्ममासीन्महोत्सवो हन्त चिराय दृष्टः ॥ तदिदानीमेतावतः समयस्य भगवान्वसिष्टः पुनरभ्यागतातिथ्यकरणाय मामेव प्रतिपालयति । तत्सत्वरं गमिष्यामि । (इति परिकामति) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy