SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ विलास. ६] नाटकप्रकरणम्। १४३ अनेन तेषु विरोधशमनाच्छक्तिर्नामाङ्गम् । विरोधशमनंयत्तुशक्तिमाहुर्मनीषिणः । _ [विजयसेनस्तथेति निष्क्रान्तः ] राजा-[ चन्द्रशालागवाक्षेण दृशमर्पयन् ] अये कुमुद्गन्ध, कोऽयं कलकलः। कञ्चुकी-देव, अद्य भृगुवासर इति भगवती चूडेश्वरचिरन्तनसुकृतपरिपाकं मरकताम्बां सेवितुं पौराणामसौ कलकलः । राजा-अहो, अनेकसुकृतलभ्यं हि भृगुवासरे भवानीसेवनं नाम । तद्वयमपि विश्वमातरं प्रणम्यागमिष्यामः । तनिर्दिश्यतां सरणिः । कञ्चुकी-[तथेति] इत इतश्चम्पकगिरिः । राजा-[तदधिरोहणमभिनीय देवालयगर्भप्रवेशं नाटयन ईश्वरं प्रति कृताञ्जलिः] जय जय चन्द्रवतंस प्रणतजनत्राणचण दयाजलधे। जय निगमतुर (तरु ?)ग चम्पकगिरिचूडाकर जय गुणाधार ॥ [इति प्रणम्य, अम्बां प्रति कृताञ्जलिः] जय जय जगदम्ब बिम्बारुणच्छायदेहप्रभागुम्भमजत्रिलोके विलोकेन कन्दर्पसञ्जीवने, यौवनेनान्वहं नूतनेनेन्द्रमातङ्गकुम्भस्थलोज्जृम्भिवक्षोजनिभिण्णवेणीलताबन्धरत्नस्फुरत्कञ्चुकीबन्धनेनानिशं भूषिते, निगमशिखरकल्पवल्लीप्रवालप्रमादायिपादाम्बुजन्यासनिष्यन्दिलाक्षारसासारमुद्राप्रणामात्त. संरम्भजंभारिमुख्यामरश्रेणिनीरन्ध्रितप्रान्तकल्पावलीवेल्लितक्षीरवाराशिमध्योल्लसन्नीपमूलस्थिते, क्लप्तविश्वस्थिते, द्वियुगदलसरोरुहान्तःसमुद्यत्प्रभानाथरूपानुकारे, पुरारेवपुःसव्यसीमाविहारे, कराराविकीरे, मुरारेरपि स्वान्तसम्भा. विते, देवि ते पादपड़ेरुहं देहिमे मानसेवाऽनभिज्ञस्य वत्सस्य वात्सल्यसाराकृते, सकलनिगमसारभूते, भवानि त्वमेवासि, शम्भुस्त्वमेवासि, शौरिस्त्वमेवासि, धाता त्वमेवासि, माता च विश्वस्य, तत्त्वां विना ध्येयमन्यं न मन्ये, किमन्येन मे प्रार्थनेनाम्ब हेरम्बषड्वक्त्रयोर्या दया सा मयि स्थीयतां देवि तुभ्यं नमः [इति प्रणाममभिनीय गिरेरवतरणं नाटयन् ] अये कुमुदगन्ध प्रणतत्राणदीक्षाया मम मातुः प्रसादतः । मनोरथस्तु निर्विघ्नो भविष्यति न संशयः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy