SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १४२ नञ्जराजयशोभूषणम् । [ प्रकाशम् ] भवतु वाच्यतां तावत् । [ अमात्यः पत्रं वाचयति ] लक्ष्मीः स्वैरं यस्य गेहे प्रसन्ना शक्तिः शम्भोर्यस्य चाजन्मसिडा । शौर्योदार्यख्यातिलावण्यधैर्येविश्वोल्लासो राजते नञ्जभूपः ॥ तस्याद्य निःसमलसद्गुणगणविस्मापित त्रिलोकस्य । रत्नाकरेण राज्ञा प्रहिता शुभपत्रिका भवतः ॥ कथनीयं तु [ विलास. ६ स्वर्णाम्बिकास्वमनियोगभूम्ना स्वयंवरं सम्प्रति कन्यकायाः । प्रस्तावयन् सर्वदिगन्तरेभ्यो विभून् समाकारितवान् क्षितीन्द्रान् ॥ तदिदानीं भवताऽपि मदभिलषितं सफलीकरणीयमिति । राजा - [ सविस्मयं स्वगतम् ] क्व कुन्तलाः कैष ककुन्महीभृत् काहं क कन्या क नु वाऽऽवयोश्च । स्नेहप्रकारः क्व च वाऽम्बिकायाः स्वने नियोगो नियतिर्विचित्रा ॥ अनेन वृत्तान्तानां कार्याणां सङ्ग्रहसूचनादादानं नामाङ्गम् । कार्याणां सङ्ग्रहो यत्र तदादानं प्रचक्षते । [ प्रकाशम् ] भवतु । आगम्यत इति विलिख्यताम् । अमात्यः - तथा [ इति निष्क्रान्तः ] राजा - कः कोऽत्र भोः । [ प्रविश्य कञ्चुकी ] देव, कारागृहप्रवेशितकनकवर्मा विजयसेनो बहिरास्ते । राजा - विलम्बः क इव । कञ्चुकी – [ निष्क्रम्य तेन सह प्रविश्य ] देव, विजयसेनः प्रणमति । राजा - अरे, विमृश्यतां कियन्तः काण्यां (रायां ? ) निवसन्तीति । विजयसेन: - [ तथेति निष्क्रम्य । पुनः प्रविश्य ] अङ्गो वङ्गो मालवः कोङ्कणेन्द्रो गौडो म्लेच्छो घूर्जर : केरलश्च । अष्टावेते वासमातन्वतेऽस्मिन् भूमीपाला बन्धनागारमध्ये ॥ राजा - शुभप्रशस्तिमिमामभिप्रकाश्य यथाविधि सम्भाव्य बन्धनतस्ते विमुच्यन्ताम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy