________________
विलास. ६ नाटकप्रकरणम् ।
१४१ पुरुषः--(भुवं ललाटं हृदयं च स्पृशन् त्रिःप्रणमति) राजा-[तमपाङ्गेन विलोकयन्नमात्यं प्रति ] अपि प्रजाः प्रमोदन्ते । अमात्यः
एतै(पुत्रै? )गोभिः पूरितागारगोष्ठा
भुञ्जानाश्च स्वर्गभोगानिहैव। त(त्व ? )त्सौभाग्यान्यालिखन्तः पठन्तो
मा नन्दन्त्युत्सवैरेव नित्यैः ॥ राजा-प्रस्तूयतां प्रकृतम् । अमात्यः--[पुरुषं प्रति ] स्वनियोग कथयित्वा निर्गम्यताम् ।
पुरुषः-[तथेति] दिनचर्याधिकारः कलाधरो विज्ञापयति । श्वेताचलदुर्गस्थेनाधिकारिणा मृगयामटता कश्चन निधिलब्धः । किश्च । कुन्तलदेशाधिपरत्नाकरस्य वन्धुजनः स्वर्णाम्बिकासेवागतस्ततः प्रातर्निवृत्तश्च । किञ्च । कावेरीसिन्धुसङ्गमे किश्चिन्नवरत्नपूर्ण चण्डमारुतवेगनुन्नं द्वीपान्तरादागतं किमपि यानपात्रम् ।
[इति वाचयित्वा प्रणम्य निष्क्रान्तः] राजा-[ससम्भ्रमं स्वगतम् ]
अपि स्वदेशं सरसीरहाक्षी
कथं प्रयाता प्रकटानुरागा। विहाय मामङ्गजतापतप्तं
यद्वा स्वतन्त्रा गुरुभिने कन्याः॥ अमात्यः-देव, कुन्तलदेशाधिपतिना रत्नाकरेण किमपि कल्याणपत्रमभिप्रेषितम्। राजा-[स्वगतम्]
पत्रं तदेत्तरलेक्षणायाः
पाणिग्रहं कस्य वदेदिदानीम् । यद्वा विशङ्काभिरलं ममैव
__यतः प्रसीदत्यधिकं मनो मे ॥ अत्र ममैवेत्यनेन भाविनः श्रेयसः स्वकीयत्वेन सिद्धवत्कथनात् प्ररोचना।
सिद्धवद्धाविनो यस्य सूचना स्यात् प्ररोचना।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com