SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ नजराजयशोभूषणम् । [विलास. ६ तामङ्गे नवचन्द्रिका नयनयोः प्रायः सुधासारिणी धातुनूतनसृष्टिमश्रुतचरीमालोकयिष्ये कदा । अहो दशाविपर्ययो ममेदानीम् । __ लीलोद्यानं बन्धनागारमिन्दुः साक्षाद्विन्दुः कालकूटानलस्य । वज्राघाता मारुता धूतचूताः किंबहुना - सर्व क्रूरं मत्प्रियां तां विनैव ॥ तत्केनेदानी समयं यापयामि मृगयां चरामि नहि वीरसेनतो दिनयुग्ममेव ननु याचिता हि सा । अधुनाऽपि सैव यदि मत्कृता स्वयं नगरं समग्रमपि शङ्कितं भवेत् ॥ [प्रविश्य कञ्चुकी] देवपाददर्शनाय पुरुषेण सह बहिरलिन्दमध्यास्ते कुशलमतिरमात्यः । [राजा नयनाञ्चलैरनुमनुते । कञ्चुकी निष्कान्तः प्रविश्य पुरुषेण कुशलमतिः ] अहो यथाविधिनियुक्तचतुरुपायमहिताया वदान्यता नीतिकल्पलतायाः। यत्प्रेषितं केरलभूमिपालं जेतुं मया किञ्चन दण्डचक्रम् । श्रुत्वा.तदन्ये पुनरन्तसीमा पार्श्वस्थिताः सन्धिमिहार्थयन्ते ॥ अत एव हि नागाः शतं केनचिदुत्तमाश्वाः सहस्रमन्येन तथा शताङ्गाः । भीतेन केनाप्ययुतंविभोनः __ सम्प्रेषिताः स्वस्वहितेच्छयैव ॥ भवतु वेद्यं विभवे निवेदयामि । [राजानमुपसृत्य] विजयतां देवः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy