SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ विलास.६] नाटकप्रकरणम् । १३९ अन्यः-अळं णिकरुणत्तणेण। धरणीए अपरिअपदविण्णासो एव्व । पेक्ख से महाभाअत्तणं संखचक्ककलसकुलिसजलअडजप्पमुहमहाभाअरेखाचिण्णाइं सूअअंदि चलणाई एव्व । अन्यः-अये तुम एव्व करुणामिऊ । अहं उण ईरिसपापकारी [इति पुरुषं कुटिलं पश्यति । इतरः-[सकोपम् ] अरे, महाराअकटकस्स तुमं विअ अहं वि भाअणं एव्व । ता कुदो ते गव्यो। [इति पुरुषं प्रति कुप्यति ] अनेन ससंरम्भान्योन्यवचनेन विरोधनं सूच्यते । अन्योन्यरूपसन्बन्धाद्वचनं स्याद्विरोधनम् । अन्यः-[विहस्य ] मा कुप्प मा कुप्प । णिकरुणत्तणं अळंकारो कजणिजुत्ताणं राअपरिअणाणं । [कनकवर्माणं प्रति] इदो कारघरअं पवेसेहि । [ कनकवर्मा तथेति निष्कान्तः ] पुरुषौ-अम्हे वि णं वुत्तंतं चंदसालागदस्स रण्णो णिवेदइस्सम्ह । [इति निष्क्रान्तौ] [ततः प्रविशति चन्द्रशालाधिगतो राजा] राजा-[सानुस्मरणम् ]] तामेव विस्तृ(स्मृ?)तनिमेषविलोलभावं किञ्चित्कपोलतलविम्बितमन्दहासम् । भूयो विवृत्तवदनं च विलोकमाना मद्यापि हन्त हृद्यं तनुते पुरस्तात् ॥ आः किं करोमि। कर्पूरद्रववैखरी श्रवणयोर्वाण्या मरन्दस्रुति बाह्वोर्बालमृणालदाम च किमप्यानन्दधारां हृदि । (छा) अलं निष्करुणत्वेन, धरण्यामपरिचितपदविन्यास एव, पश्यास्य महाभागत्वम् , शङ्ख चक्रकुलिश जलज ध्वजप्रमुख महाभागेरेखा चिह्न सूचयतश्चरणे एव । (छा) अये त्वमेव करुणामृदुः । अहं पुनरीदृशपापकारी । (छा) अरे महाराजकटाक्षस्य त्वमिव अहमपि भाजनपात्रः । तत् कुतस्ते गर्वः । (छा ) मा कुप्य मा कुप्य । निष्करुणत्वं खलु अलङ्कारः कार्यनियुक्तानां राजपरिजनानाम् । (छा) इतः कारागृहं प्रविश । (छा) आवामप्येतद्वृत्तान्तं चन्द्रशालागताय राज्ञे निवेदयावः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy