________________
१३८ नजराजयशोभूषणम् ।
[विलास.६ अवमानादिकरणं कार्यार्थ छलनं विदुः । इति। विजयसेनः-अये कुमुबन्धुरनुदित एव । केन प्रबोधितो देवः । कचकी
चन्द्रोदयोदेलपयोधिवीचिरिञ्छोलिकाजृम्भितसोदरेण ।
कोलाहलेनैव वरूथिनीनां प्रभुः प्रबुद्धोऽजनिसम्भ्रमेण ॥ विजयसेनः-भवतु का समयः । कञ्चकी-अधिमज्जनगेहम्
विरचितधेनुसपर्यः कृतमञ्जुलमजनो महीरमणः ।
अगरूपरिमलसारैरलकानधिवासयन् वसति । विजयसेनः तर्हि बहिरलिन्द एव समयं प्रतिपालयेयम् । [इति तथा करोति]
कञ्चुकी-पुरुषौ, प्रगृह्यतामयं कनकवर्मा अहमप्युदन्तमपि देवाय निवेदयामि । [इति निष्कान्तः ]
पुरुषौ--[तं परिवेष्टय] अरे राअइदो काराघरअमग्गो। [इति दर्शयतः] कनकवर्मा-[सविषादं स्वगतम् ] लज्जितोऽस्मिराजसम्बोधनात् ।
पित्रा शूरेणार्जितां राज्यलक्ष्मी
बिभ्रन् मोरध्यादाप्तवर्गविरुद्ध्यन् । यस्यालम्बादीदृशश्रीरभूवं
श्लाघ्यः सोऽयं राजभावो ममैव ॥ अत्र पित्रा शूरेणेत्यनेन गुरुकीर्तनात् प्रसङ्गः । गुरूणां कीर्तनं यत्तु स प्रसङ्ग इतीरितः। पुरुषयोरेकः--
अरे राअ घरणीए अपरिइअपदविण्णासो विअ कुडिलं कुडिलं चरेसि । तुरियमायच्छेहि । अण्णहा उण कोपो भवे अम्हाणं ।
अनेन कारागृहप्रवेशानुकूलस्वनैपुण्यरूपगुणस्याविष्करणाद्विचलनं नामाङ्गम् ।
आविष्कारो विचलनं प्रकृते स्वगुणस्य तु। ( छा) अरे राजन् , इतः कारागृहमार्गः ।
(छा) अरे राजन्, धरण्यामपरिचितपदविन्यास इव कुटिलं कुटिलं चरसि । त्वरितमागच्छ । अन्यथा पुनः कोपो भवत्यावयोः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com