SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १३८ नजराजयशोभूषणम् । [विलास.६ अवमानादिकरणं कार्यार्थ छलनं विदुः । इति। विजयसेनः-अये कुमुबन्धुरनुदित एव । केन प्रबोधितो देवः । कचकी चन्द्रोदयोदेलपयोधिवीचिरिञ्छोलिकाजृम्भितसोदरेण । कोलाहलेनैव वरूथिनीनां प्रभुः प्रबुद्धोऽजनिसम्भ्रमेण ॥ विजयसेनः-भवतु का समयः । कञ्चकी-अधिमज्जनगेहम् विरचितधेनुसपर्यः कृतमञ्जुलमजनो महीरमणः । अगरूपरिमलसारैरलकानधिवासयन् वसति । विजयसेनः तर्हि बहिरलिन्द एव समयं प्रतिपालयेयम् । [इति तथा करोति] कञ्चुकी-पुरुषौ, प्रगृह्यतामयं कनकवर्मा अहमप्युदन्तमपि देवाय निवेदयामि । [इति निष्कान्तः ] पुरुषौ--[तं परिवेष्टय] अरे राअइदो काराघरअमग्गो। [इति दर्शयतः] कनकवर्मा-[सविषादं स्वगतम् ] लज्जितोऽस्मिराजसम्बोधनात् । पित्रा शूरेणार्जितां राज्यलक्ष्मी बिभ्रन् मोरध्यादाप्तवर्गविरुद्ध्यन् । यस्यालम्बादीदृशश्रीरभूवं श्लाघ्यः सोऽयं राजभावो ममैव ॥ अत्र पित्रा शूरेणेत्यनेन गुरुकीर्तनात् प्रसङ्गः । गुरूणां कीर्तनं यत्तु स प्रसङ्ग इतीरितः। पुरुषयोरेकः-- अरे राअ घरणीए अपरिइअपदविण्णासो विअ कुडिलं कुडिलं चरेसि । तुरियमायच्छेहि । अण्णहा उण कोपो भवे अम्हाणं । अनेन कारागृहप्रवेशानुकूलस्वनैपुण्यरूपगुणस्याविष्करणाद्विचलनं नामाङ्गम् । आविष्कारो विचलनं प्रकृते स्वगुणस्य तु। ( छा) अरे राजन् , इतः कारागृहमार्गः । (छा) अरे राजन्, धरण्यामपरिचितपदविन्यास इव कुटिलं कुटिलं चरसि । त्वरितमागच्छ । अन्यथा पुनः कोपो भवत्यावयोः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy