SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ विलास. ६] नाटकप्रकरणम्। १३७ तदिदानीं स परिवृतमत्तमातङ्गघण्टावलयमुखरितदिगन्तं तं हस्ते परिगृह्य प्रतिहारभूमिमभिवर्त्तते । अत एव अन्तर्मन्दं विशत नगरं केन कोलाहलो वः । _____ सम्मद किं सहन्ते करतलकलिता वेत्रदण्डा इमे नः । रे रे नव्योऽसि दूरे निवस बहिरितस्त्वं विशङ्ख बजेति श्रूयन्ते धीरनादाः सरभसमधुना गोपुरे रक्षकाणाम् ॥ अत्र वेत्रदण्डा न सहन्त इत्यनेन तर्जनसूचनात् द्युतिर्नामाङ्गम् । युति म समादिष्टा तर्जनोद्वेजनात्मिका । अनेन विजयवृत्तान्तेन स्मरामि कमपि प्राक्तनं जयवृत्तान्तम् । यत्किल बाल्य एव खण्डं खण्डं रुण्डखण्डानरीणां रक्ताम्भोभिः पूरयित्वा धरित्रीम् । शूरैर्दत्तं वीरसेनेति नाम प्राप्तोऽभूवं दिक्तटस्यूतकीर्तिः॥ अनेन स्वसामर्थ्यकथनद्वयवसायो नामाङ्गम् । व्यवसायः स्वसामर्थ्यप्रख्यापनमुदीर्यते । आः कथमयमन्तःप्रविष्टानि सैन्यानि तत्र तत्र निश्चलं नियमयन् कनकवर्मद्वितीयो राजगृहमुपसर्पति । यावदेनमतिचिरदृष्टमनुजन्मानं सम्भावयामि । [इति निष्क्रान्तः ] . [ततः प्रविशति यथानिर्दिष्टो विजयसेनः] विजयसेनः कृपातिभून्ना कळुलेनृपालसन्तानवृक्षस्तबकेन राज्ञा । नज़क्षितीन्द्रेण पुरा नियुक्तं कार्य समादाय समागतोऽहम् ॥ तदिदानीमचिरेणैव देवस्य विजयश्रियमार्जितामपूर्वी पादमूले समर्पयामि । कः कोत्र भोः ? । निवेदयत मां विभुभ्यः । [प्रविश्य सत्त्वरं कञ्चुकी पुरुषो च] कचकी-अये विजयसेन पुरुषयोरधीनः क्रियतां कारागृहनिवसाय कनकबर्मेति देवः समादिशति।अनेन कनकवर्मणि अवमानसूचनाच्छलनं नामाङ्गम् । १८-१९ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy