________________
१३६ नजराजयशोभूषणम् ।
[विलास. ६ अत्र गर्भसन्धिप्रसिद्धस्य मृगयारूपवस्तुनो विच्छिन्नस्य विशेषणजनितव्यसनमुखेन विमर्शाद्विमर्शसन्धिरयम् ।
गर्भसन्धिप्रसिद्धस्य वस्तुनः परिमर्शनम् ।
क्रोधेन व्यसनाद्वाऽपि विमर्शः सन्धिरिष्यते ॥ अत्र नखरायुधहतक इत्यनेन स्वस्थ प्रभुविश्लेषहेतौ नखरायुधे दोषप्रख्यापनादपवादो नामाङ्गम् ।
तत्रापवादो दोषाणां प्रख्यापनमुदीर्यते । अथ तमेवानुसरन् रे रे दुष्टश्वापद दुर्बलहिंसापर भवान् न भवतीति देवस्य मौर्वीनिनादेन सह परुषभाषितमाकर्ण्य यावदुपसर्वामि तावदेव सारङ्गवैरिणं तमपि निपातयन् अन्यत्रापमृतः स न लक्षितश्च । अत्र भवान्न भवतीत्यनेन रोषसूचनात् संफेटो नामाङ्गम् ।
रोषेण कथितं वाक्यं संफेट संप्रचक्षते । तदनन्तरं च ।
जन्तूनुवृत्तवृत्तीन् दलयितुमनुगानादिशन् लुब्धवर्गान्
आबद्धान् वागुराभिर्हरिणशिशुगणानानयन रक्षणाय । अन्विष्यान्विष्य कामं वनभुवमभितो देवमासायमेव
प्राप्तस्तस्मानिवृत्तो नगरमिममहो सम्प्रवृत्ते निशीथे ॥ अनोवृत्तजन्तुषु हरिणेषु च क्रमेण वधबन्धादिकथनाद्विद्रवो नामाङ्गम् । _ विरोधवधयन्धादिविद्रवः परिकीर्तितः।
श्रुतश्च महाराजोऽपि यामावशिष्टायामेव यामिन्यामागत्य परिश्रान्तो गृहाभ्यन्तरमधिशेत इति ।
[कर्ण दत्वा ] कोऽयं नगरप्रतिहारे कलकल इव । आः स्मृतम् । प्रेषितः किल स्वामिना विभुना मम कनीयान् भ्राता विजयसेन[:]ससेनः तस्य दुर्गाक्रमणाय कबकवर्मणः केरलभूमिपस्य । यः किल
मूढोऽसि नन्नक्षितिवल्लभेन तेनाऽपि ते हन्त कथं विरोधः । इति प्रवक्तृनपि वंशवृद्धान् विडम्बयामास सहस्ततालम् ॥ अत्र वंशवृद्धान् विडम्बयामासेत्यनेन गुरुतिरस्काराइवोनामाङ्गं सूच्यते। गुरुव्यतिक्रमं प्राह द्रवं तु भरतो मुनिः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com