SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ बिलास.६] नाटकप्रकरणम्। अनेन स्वाभिलषितवल्लभप्राप्तीच्छारूपकार्यस्यापायशङ्कासूचनात् प्रात्याशा नामार्थावस्था सूचिता। उपायापायशङ्काभ्यां प्रात्याशा कार्यसम्भवः । सख्यौ--[ संस्कृतमाश्रित्य ] कृतं चिन्तया । युवयोः सखि दैवसम्भृतःप्रणयोऽयं वद् कस्य न प्रियः । चन्द्रकला-तह वि संकणिजो गुरूजणो । सख्यौ-[पुनरपि तदेवाश्रित्य] जननीजनको न किं भवेतां प्रियपुत्रीहृदयानुवर्तने ॥ अत्र दैवसम्भृतः प्रणय इत्यनेन नायिकाप्राप्तिसूचककुलदेवतास्वमरूपप्रसादवस्तुनः मुखसन्धिः गूढोक्षिप्तस्य पुनरुपक्षेपादाक्षेपो नामाङ्गम् । गूढवस्तुसमं क्षेपमाक्षेपं विबुधा जगुः । तदेवं प्राप्त्याशापताकयोः सन्धिः साङ्गो मुखसन्धिः । होदु । णवसमुग्गअं कुरवअमंजरीमेणं घरअहिअसोहग्गगोरीचरणेसु समप्पेमो। चन्द्रकला-जं वो रुबइ। [इति निष्क्रान्ताः सर्वे] इति श्रीपरमशिवावतारशिवरामदेशिकचरणारविन्दानुसन्धानमहिमसमासादितनिस्सहायदैनन्दिनप्रबन्धनिर्माणसाहसिकनिखिलविद्वजनलालनीयसरससाहितीसम्प्रदायप्रवर्तकनरसिंहकविरचिते नाराजयशोभूषणे अलंकारशास्त्रे नाटकप्रकरणे चन्द्रकलाकल्याणे तृतीयोऽङ्कः॥ अथेदानीमङ्कास्यम्। [ततः प्रविशति वीरसेनः] ह्यः किल आमध्याहृमनुपदमेव मयाऽनुसृतो मृगयामटन् कश्चन गिरिकन्दरादेणशाबकमनुद्रवन्तं कमपि नखरायुधहतकं ससंभ्रममनुधावन् महासत्त्वः पादचारी महाराजः। (छा) तथाऽपि शङ्कनीयो गुरुजनः । (णा) भवतु । नवसमुद्रकां कुरवकमन्नरीमेतां गृहस्थितसौभाग्यगौरीचरणयोः समर्पयामः । (ग) यथा वो रोचते। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy