________________
बिलास.६]
नाटकप्रकरणम्। अनेन स्वाभिलषितवल्लभप्राप्तीच्छारूपकार्यस्यापायशङ्कासूचनात् प्रात्याशा नामार्थावस्था सूचिता।
उपायापायशङ्काभ्यां प्रात्याशा कार्यसम्भवः । सख्यौ--[ संस्कृतमाश्रित्य ] कृतं चिन्तया ।
युवयोः सखि दैवसम्भृतःप्रणयोऽयं वद् कस्य न प्रियः । चन्द्रकला-तह वि संकणिजो गुरूजणो । सख्यौ-[पुनरपि तदेवाश्रित्य]
जननीजनको न किं भवेतां प्रियपुत्रीहृदयानुवर्तने ॥ अत्र दैवसम्भृतः प्रणय इत्यनेन नायिकाप्राप्तिसूचककुलदेवतास्वमरूपप्रसादवस्तुनः मुखसन्धिः गूढोक्षिप्तस्य पुनरुपक्षेपादाक्षेपो नामाङ्गम् ।
गूढवस्तुसमं क्षेपमाक्षेपं विबुधा जगुः । तदेवं प्राप्त्याशापताकयोः सन्धिः साङ्गो मुखसन्धिः । होदु । णवसमुग्गअं कुरवअमंजरीमेणं घरअहिअसोहग्गगोरीचरणेसु समप्पेमो। चन्द्रकला-जं वो रुबइ।
[इति निष्क्रान्ताः सर्वे] इति श्रीपरमशिवावतारशिवरामदेशिकचरणारविन्दानुसन्धानमहिमसमासादितनिस्सहायदैनन्दिनप्रबन्धनिर्माणसाहसिकनिखिलविद्वजनलालनीयसरससाहितीसम्प्रदायप्रवर्तकनरसिंहकविरचिते नाराजयशोभूषणे अलंकारशास्त्रे नाटकप्रकरणे चन्द्रकलाकल्याणे
तृतीयोऽङ्कः॥
अथेदानीमङ्कास्यम्।
[ततः प्रविशति वीरसेनः] ह्यः किल आमध्याहृमनुपदमेव मयाऽनुसृतो मृगयामटन् कश्चन गिरिकन्दरादेणशाबकमनुद्रवन्तं कमपि नखरायुधहतकं ससंभ्रममनुधावन् महासत्त्वः पादचारी महाराजः।
(छा) तथाऽपि शङ्कनीयो गुरुजनः । (णा) भवतु । नवसमुद्रकां कुरवकमन्नरीमेतां गृहस्थितसौभाग्यगौरीचरणयोः समर्पयामः । (ग) यथा वो रोचते।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com