SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १३४ नञ्जराजयशोभूषणम् । एतत्संभ्रमोदितं तोटकमङ्गम् । ससंभ्रमं तु वचनं तोटकं परिकीर्त्यते । चन्द्रकला -- अयि परमथ्यचाओत्ति किं एदं । [ विलास. ६ सख्यौ - [ जनान्तिकम् ] इदो वरं रहस्सं विसदेमो । [ प्रकाशम् ] सहि चंदअले जो पडिमरुव्वेण कुसुमचावो दिट्ठो पस्सिदोअ तुए सो एव्व दे वल्लहो । तस्स अंतरंगो चापहारिपुरुसो एसो । चन्द्रकला - कुदो एव्वं संविहिदं । मञ्जरी -- देविणिउत्तदोहलंमि तुह अणादरो माहोदुत्ति । चन्द्रकला — कहं अलीअवादिणीओ ण अंहेत्ति कहिदं । सख्यौ - अह भमिआसि । अप्पिअवादिणीओ ण अंहेत्ति खु कहिदं अवि ण सुमरेसि सव्वं फुडीभविस्सदित्ति कहिदं । चन्द्रकला - सिद्धकप्पो मे मणोरहो [ कञ्चुकिनं प्रति ] भट्टिणी किं करेदि । कञ्चुकी - - सा सायमागत्य चन्दशालायां शिखरपञ्जरामलम्बितशुकमुखोदितं " दिट्ठिआ ण कोवि एद्ध जणो । जस्स मुहेण रहस्सं विहलिदं भवे । अयि लीलाए एव्व रहस्सचोरअं पेक्खाहरं णाम सुअं वज्जिअ ण कोवि । अदोखु णं सव्वहा हथ्थे करेहित्ति भट्टिदारिआ तुह वि अभ्भन्तरपवेसणं सा तवस्सिणी णाणुमण्णे । तह भट्टिणी चंदसालावलंबिदे पंजरे णं करिस्सं" इति वचनमाकर्ण्य सशङ्का परिजनेन किमपि पर्यालोचयन्ती वर्तते । चन्द्रकला - अवि एदं कहं भवे । (छा) अयि परमार्थचापेति किमेतत् । (छा) इतः परं रहस्यं विशदयावः (मः ) । (छा) सखि चन्द्रकले यः प्रतिमारूपेण कुसुमचापो दृष्टः स्पृष्टश्च त्वया स एव ते वल्लभः । तस्यान्तरङ्गश्चापधारी पुरुष एषः । (छ) कुत एवं संविहितम् । (छा) देवीयियुक्त दोहले तवानादरो मा भवत्विति । (छा) कथमलीकवादिन्यौ नावामिति कथितम् । (चा) अयि भ्रान्तासि । अप्रियवादिन्यौ नावामिति खलु कथितम् । अपि नु स्मरसि सर्व स्फुटी भविष्यतीति कथितम् । (छ) सिद्धकल्पो मे मनोरथ । भट्टिनी किं करोति । (छा) अप्येतत्कथं भवेत् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy