SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ विलास. ६] नाटकप्रकरणम्। १३३ त्वयीयमुदितस्नेहा सततं परिदूयते । प्रकृतिस्तु तवार्तानां श्रेयोवितरणव्रतम् ॥ राजा-सर्वसङ्ग्रहः खल्वियमभ्यर्थना । [नेपथ्ये सविषादम्] सखे किं करोमि । [संस्कृतमाश्रित्य] जम्बूफलानां भरमुत्तमाओं कृत्वा च हस्ते परमार्थचापम् । इहागतं मां कपयः समन्तात् भ्रमद्भुवः क्रूरमनुगु(?)वन्ति ॥ तत्परित्रायस्व माम् । राजा-[सवितकं स्वगतम् ] अयमस्मदीयो भक्षणचपलः स भवेत् । किश्च । अनेन चापलवृत्तान्तेन स्मरामि । मृगयाविश्लिष्टो वीरसेनो नामैतावन्तमनेहसं नगरपरिसरे मृगयतेति । सख्यौ-जुत्तं खु दीणदयालुत्तणं तुम्हारिसाणं । [राजा निष्क्रान्तः] चन्द्रकला-सहि किं एदं । णिसाइं वाणराणं अविणअप्पसंगोत्ति । सख्यौ-सहि किं ण पेक्खसि । रअणपआसिअदिसासु दिव्यभूमिसु इमासु णिसावि दिअएहि । होदु । संभमाअदं अह्म कंचुइणं पेक्क्षम । [प्रविश्य सत्वरं ] कञ्चुकी-भहिन्याज्ञापयति त्वरितमाकारय भर्तृदारिकामिति । चन्द्रकला-अवि मग्गे कोवि विणोदो दिह्रो। कञ्चुकी-दृष्ट एव समीपे कोऽपि वानराकारः पुरुषः कपिभिः परितजितः क्रोशति। सख्यौ-कहं वि। कञ्चुकी पाणौ वहन्तं परमार्थचापं मामप्यहो भीषयतः प्रकामम् । तदद्य वः क्रूरतराः कपीन्द्राः छेत्स्यामि वालानतिदीर्घलोलान् ॥ (छा) युक्तं खलु दीनदयालुत्वं युष्मादृशानाम् । (छा) सखि किमिदम् । निशायां वानराणां अविनयप्रसङ्ग इति । (छा) सखि किं न पश्यसि । रत्नप्रकाशितदिशासु दिव्यभूमिषु आसु निशाऽपि दिवसायते । भवतु संभ्रमागतमस्मत्कञ्चुकिनं प्रेक्ष्यामः । (छा) अपि मार्गे कोऽपि विनोदो दृष्टः । (छा) कथमिव । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy