________________
१३२ नजराजयशोभूषणम् ।
[विलास. ६ [ सविस्मयम् ] आः किमेतत् ।
कुरवकं रक्कम्रमधुव्रतं स्थपुटितस्फुटकोरकजालकम् ।
पृथुकुचा परिरभ्य निवर्तते सरभसं नटदायतवेणिका ॥ चन्द्रकला-[सहसा निवृत्य] हला किं करेमि । कस्स ण विण्णवेम्मि ।
राजा-प्रिये नन्वेष परिसरे तव हृद्यानुरञ्जनः परिजनः । आज्ञाप्यतां नाम।
कुरवकपरिरम्भप्राप्तविन्यासभेदा
नयि धपुषि यथावद्भूषणान्यर्पयामि। भ्रमजलकणमुक्तारञ्जितं मञ्जुवाणि
प्रविचलदलकाग्रं वीजयाम्याननं ते ॥ चन्द्रकला-वल्लह (अ) किदवेदी एसो रुक्खो भमररवेहिं हुंकरेइ किं करेमि।
राजा-[ससम्भ्रममुपसृत्य ] __सपदि विजहि शङ्कां निष्कलङ्केन्दुवके
निवसति पुरतोऽयं दुष्टशिक्षाधुरीणः । [ऊर्ध्वमवलोक्य]
वदत मधुपनीचास्त्रासयध्वे किमेनां [यद्वा]
मधु मदविवशानां नानुयोज्या हि चेष्टाः ॥ सख्यौ-[ससंभ्रमम् ] जेदु महाराओ।
चन्द्रकला-[सस्मितापाझं मनसा प्रणम्य स्वगतम्] कहं चिंदिदमेत्तो एव्व आवण्णकिपाल सविहगदो जणो। [साशङ्कम् ] कहं पडिमादसणं एव्व पञ्चाअदं विअ मे होदि ।
सख्यौ-हला, किं मुहा होसि । आअंकहरस्स जणस्स हिअआवेअं कहेहि । अहवा किं कदिव्वं । कुरवअदंसणजणिणिव्वेदादो एव्व कहिदो हिअआवेओ। [राजानं प्रति संस्कृतमाश्रित्य ]
(छा) सखि किं करोमि । कस्यैतद्विज्ञापयामि।। (छा) वल्लभ अकृतवेद्येष वृक्षो भ्रमररवैर्हकरोति किं करोमि । (छा) जयतु महाराजः। (छा) कथं चिन्तितमात्र एव आपनकृपालुः सविधगतो जनः । कथं प्रतिमादर्शनमेव प्रत्यागतमिव मे भाति ।
(छा) सखि, किं मुधा भवसि । आतङ्कहरस्य जनस्य हृदयावेगं कथय । अथवा किं कथयितव्यम् । कुरवक दर्शनजनितनिवेंदादेव कथितो हृदयावेगः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com