________________
विलास. ] नाटकप्रकरणम् ।
१३१ चन्द्रकला--किवि ण पेक्खामि ।
सख्यौ-तारिसबंधुसंदसणं उस्सुआवेहि जणहिअआई । [चन्द्रकला पुनर्विवृत्य विवृत्य राजानं पश्यन्ती सशकैव बहिनिःसरति]
सख्यौहला इदो तिलअरुक्खवाडिआपहेण गच्छंह ।
राजा-[कुञ्जगृहाबहिर्निर्गत्य प्राचीमवलोक्य ] कथमुदितभूयिष्ठ एव भगवानोषधीरमणः । तथाहि
प्रौढध्वान्तकरालितां त्रिजगतीमुढेलमुद्भासयन्
मुद्राबद्धचकोरचञ्चुपुटयोश्वाञ्चल्यमुल्लासयन् । सद्यो विद्रवयन करैः कुमुदिनी साकं शशाङ्कोपलैः
पान्थानां विषबिन्दुरेष पुरतो राकेन्दुरुज्जृम्भते ॥ तत् केनोपायेन सन्तापमपाकरोमि । यद्वा । किमन्यत् प्रियवदनेन्दुसदर्शनमन्तरेण । तत्रैव परिसरे समयं प्रतिपालयिष्ये । [इति तथा करोति]
सख्यौ--हला पेक्ख इमे पहंमि ठिए तिलअरुक्खे।
चन्द्रकला--इदो वि केत्ति रुक्खा लंघणिजा । [इति प्रतिवृक्षं सञ्चरन्ती विलोकयति] राजा--कुवलयदलस्निग्धापाङ्गत्रिभागतरङ्गितं
विकिरति तरौ यस्मिन् यस्मिन्नियं ललनामणिः । तरुणकलिकास्तस्मिन् तस्मिन्निरन्तरमुद्गता
दघति सुरभि भृङ्गश्रेणीपदाहतकेसराः ॥ सख्यौ--हला, कुरवओ एसो । आअरणिजमस्स करेहि
[चन्द्रकला-वल्लभं मनसा प्रणम्य तरुमालिङ्गति] राजा-यावद्वाहुमृणालयुग्ममबला मञ्जुक्कणस्कङ्कणं
निस्तार्यव्यपवृत्तहारतिलकं प्रव्यक्तरोमावलिम् । रेखालक्ष्यवलित्रयं च तमिमं सत्रासमालिङ्गति
स्कन्धोद्रीवितकोरकः कुरवकस्तावत् समालक्ष्यते ॥ (छा) किमपि न पश्यामि। (छा) तादृशबन्धुसन्दर्शनं उत्सुकयति जनहृदयानि । (छा) सखि, इतस्तिलकवृक्षवाटिकापथेन गच्छामः । (छा) सखि, पश्येमान् पथि स्थितांस्तिलकवृक्षान् । (छा) इतोऽपि कियदक्षा लङ्घनीयाः । (छा) सखि । कुरवक एषः । आचरणीयमस्य कुरु ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com