________________
नजराजयशोभूषणम् ।
[क्लिास.६ चन्द्रकला [सगद्गदं सानन्दम् ]-भअवं मंमहरुव सअलजणमहिदे कलुलेणिवइकुले तारिसणामहेएण किदावदारोतुमं एव्व मह मणरहसिद्धि करेहि सख्यौ-हला विवरिअ कहेहि कीरिसनामहेएण ।
[चन्द्रकला लज्जया मुखं नमयति ] राजा-[ स्वगतम्]
सर्वनामपदेनैव स्मरयन्त्या ममाह्वयम् ।
चातुर्यस्यास्य मौल्याय न पर्याप्तमिदं जगत् ॥ - [इति विवशो विस्मृत्यात्मानं कराञ्चलात् कतिपयकुसुमानि च्यावयति]
सख्यौ [ स्वगतम् ]-अहो पमादो पमादो [सत्वरमुपसृत्य चन्द्रकलायाश्चेलाञ्चलेन तानि धारयन्त्यौ प्रकाशम् ] हला वद्वेहि दिण्णो एव्व पसादो देवदाए। [इति प्रसंशतः ]
चन्द्रकला--मुदिदं हि राजा--[ स्वगतम् ] प्रक्रान्तार्धविलोकनैकफलको यो यः प्रमादान्मया
प्रकान्तो विकृतिक्रमः सरभसं तं तं समाखिलम् । आशास्यान्यपि लीलया घटयितुं सन्नद्धयोरेनयोः
प्रज्ञाकौशलवैभवं सकृदपि स्तोतुं प्रगल्भेत कः ॥ सख्यौ-हला उठेहि । समाआदो एव्व समओ, भविस्सइ पुणो वल्लहसंदसणस्स।
चन्द्रकला-[ किश्चिन्निर्गत्य पुनर्वलितग्रीवम् ] सहिओ, कहं पडिम विहाय चरणौ न प्रसरतः।
सख्यौ-हला कहेहि । मअणस्स तस्स रपणे कोणु भेदो। (छा) भगवन् ! मन्मथरूप ! सकलजनमहिते कळुलेनृपतिकुले तादृशनामधेयेन कृतावतारस्वमेव मम मनोरथसिद्धिं कुरु।
(छा) सखि विवृत्य कथय । कीदृशनामधेयेन । (छा) अहो प्रमादः प्रमादः । (छा) सखि । वर्द्धस्व । दत्त एव प्रसादो देवतया । (छा) मुदिताऽस्मि। (छा) सखि, उत्तिष्ठ । समागत एव समयो भविष्यति पुनर्वल्लभसन्दर्शनस्य । (छा) सखि, कथय । मदनस्य तस्य राज्ञः को नु भेदः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com