________________
विलास. ६] नाटकप्रकरणम् ।
१२९ सवस्सि सा भावणा वा । सव्वहा मह हिअअजीविअस्स जणस्स चरणाई एव्व मह सरणं।
[इति निश्चलं विलोकयति] राजा-[स्वगतम् ]
प्रौढकैतकदलच्छविस्फुरद्गण्डमण्डलनिरन्तरोदितैः ।
स्वेदबिन्दुशकलैरियं मयि प्रेम सूचयति भावयत्यपि ॥ सख्यौ-हला किं चिंतेसि । पणामाणंतरं एव्व भावणिजा खु देवदाओ।
चन्द्रकला-तहा। [इति राज्ञः पदाग्रे कराभ्यां स्पृशन्ती सानन्दं संस्कृतमाश्रित्य]
लीलयैव कुसुमं धनुः शरान् बिभ्रते भुवनभव्यकीर्तये।
कामरूपकमनीयसम्पदा रञ्जितत्रिजगते नमोऽस्तु ते ॥ [इति प्रणम्य निर्निमेषं विलोकयति] [साशङ्कम् ] सहिओ ! कहं पडिमाई सेदविंदुसमुग्गमसंभावणा णाम ।
राजा-स्वगतम् ] आः कथं दृष्टोऽस्मि । कथमिदानी गोपनीयम् । यदहम्
कल्पतरुपल्लवादपि सरसेन करेण सरलहृदयायाः ।
स्पृष्टोऽहमिन्दुचुम्बितचन्द्रोपलचातुरीं तिरस्कुर्वे ।। सख्यौ [जनान्तिकम् ] किमुत्तरमिमाइ [प्रकाशम् ]
होदीए वअणचंदसंदसणेण चंदकंदप्पडिमा सिंजइत्ति किं एत्थ अच्चेरं । किं।ण काव्वं देवदासमक्खं पाअडशंका ।ता विणप्पं णिवेदिअ णिवत्तेहि ।
चन्द्रकला-सविदिअसअलकजाए देवदाए वि किं सूअणिजं अत्थि। सख्यौ तहवि आआरं करेहि । (छा) सखि ! किं चिन्तयसि । प्रणामानन्तरमेव संभावनीयाः खलुः देवताः । (छा) सख्यौ कथं प्रतिमायां स्वेदबिन्दुसमुद्गमसंभावना नाम । (छा) किमुत्तरमस्याः ।
(छा) भवत्या वदनचन्द्रसन्दर्शनेन प्रतिमा स्विद्यतीति किमत्र आश्चर्यम् । किञ्च न कर्त्तव्या देवतासमक्ष प्राकृतशका । तद्विज्ञप्ति निवेद्य निवर्तस्व ।
(छां) स्वयं विदितसकलकार्याया देवताया अपि किं सूचनीयमस्ति । (छा) तथाऽपि आचारं कुरु ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com