________________
१२८ नजराजयशोभूषणम् ।
[विलास.६ मन्दं मन्दं मत्समीपं व्रजन्ती सैषा योषा तोषयत्यन्तरङ्गम् ॥ सख्यौ-हला कुंदलदाघरअसुक्खजवणिअंतरपडिबिंबिअं पेक्ख चउरसिप्पिविहिकरकोसलम् ।
[संस्कृतमाश्रित्य] नवेन्दुकान्तप्रविभक्तगात्रः सुश्लिष्टवर्णो धृतरूपरेखः ।
सुराङ्गनानामपि मोहनीयः स एव साक्षादिह पुष्पधन्वा ॥ चन्द्रकला-[सख्यौ प्रत्यपवार्य ] स एव्व कीस इह पुप्पधणुहो होदि । सख्यौ-[स्मितं कृत्वा ] अयि सद्दच्छलेण वंचिदासि । जहविहि चंदसिलाहिं रइआ पडिमा इअं खु राएण। कप्पिअसोहारुइरो विदिओ पडिभाइ सुमधणुब्व पुरो॥ किं इमिणा लोलत्तणेण। सव्वं पुडीभविस्सदि।होदु ।अन्भन्तरे पदं देसु ।
[चन्द्रकला तथेति यवनिकामुपसर्पति] राजा-[स्वगतम् ]
यथा यथा प्रान्तमुपैति कान्ता झलज्झलन्नूपुररञ्जिताधिः । तथा तथा काचन मोहमुद्रा विवर्द्धते चेतसि किं करोमि॥
आः सात्विका अपि भावाः समुत्पद्यन्ते ममाङ्गेषु । [विमृश्य]
सात्विकेषु विकारेषु स्तम्भोऽयं प्रकृतोचितः। अन्ये विवर्धमाना मे विकारायैव केवलम् ॥
[सख्यौ यवनिकामपनयतः] चन्द्रकला-सानन्दं साशकं च विलोक्य स्वगतम् ] कथमेसो सो ण भवे । अहवा । अलं संसएण। सो एव्व । अण्णहा उण तस्सि एव्व अणुरत्ताए मह महाउलप्पसूदाए कहं सिजन्दि अगाई । अहवा भमो । एदं वि आदु
(छा) सखि ! कुन्तलतागृहसूक्ष्मयवनिकान्तरप्रतिबिम्बितं पश्य चतुरशिल्पिविधिकरकौशलम् । (छा) स एव कस्मादिह पुष्पधन्वा भवति ।
(छा) अयि शब्दच्छलेन वञ्चिताऽसि । यथाविधि चन्द्रशिलाभिः रचितेयं प्रतिमा हि रागेण कल्पितशोभारुचिरः विदितः प्रतिभाति सुमधनुरिव पुरः । किमनेन लोलत्वेन । सर्व स्फुटीभविष्यति । भवतु । अभ्यन्तरे पदं देहि ।
(छा) कथमेष स न भवेत् । अथवा अलं संशयेन । स एव । अन्यथा पुनस्तस्मिन्नेवानुरक्ताया मम महाकुलप्रस्तायाः कथं स्विद्यत्यहानि । अथवा भ्रमः । एतदपि उत सर्वत्र सा भावना वा। सर्वथा मम हृदयजीवितस्य वरणावेव मम शरणम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com