SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १२८ नजराजयशोभूषणम् । [विलास.६ मन्दं मन्दं मत्समीपं व्रजन्ती सैषा योषा तोषयत्यन्तरङ्गम् ॥ सख्यौ-हला कुंदलदाघरअसुक्खजवणिअंतरपडिबिंबिअं पेक्ख चउरसिप्पिविहिकरकोसलम् । [संस्कृतमाश्रित्य] नवेन्दुकान्तप्रविभक्तगात्रः सुश्लिष्टवर्णो धृतरूपरेखः । सुराङ्गनानामपि मोहनीयः स एव साक्षादिह पुष्पधन्वा ॥ चन्द्रकला-[सख्यौ प्रत्यपवार्य ] स एव्व कीस इह पुप्पधणुहो होदि । सख्यौ-[स्मितं कृत्वा ] अयि सद्दच्छलेण वंचिदासि । जहविहि चंदसिलाहिं रइआ पडिमा इअं खु राएण। कप्पिअसोहारुइरो विदिओ पडिभाइ सुमधणुब्व पुरो॥ किं इमिणा लोलत्तणेण। सव्वं पुडीभविस्सदि।होदु ।अन्भन्तरे पदं देसु । [चन्द्रकला तथेति यवनिकामुपसर्पति] राजा-[स्वगतम् ] यथा यथा प्रान्तमुपैति कान्ता झलज्झलन्नूपुररञ्जिताधिः । तथा तथा काचन मोहमुद्रा विवर्द्धते चेतसि किं करोमि॥ आः सात्विका अपि भावाः समुत्पद्यन्ते ममाङ्गेषु । [विमृश्य] सात्विकेषु विकारेषु स्तम्भोऽयं प्रकृतोचितः। अन्ये विवर्धमाना मे विकारायैव केवलम् ॥ [सख्यौ यवनिकामपनयतः] चन्द्रकला-सानन्दं साशकं च विलोक्य स्वगतम् ] कथमेसो सो ण भवे । अहवा । अलं संसएण। सो एव्व । अण्णहा उण तस्सि एव्व अणुरत्ताए मह महाउलप्पसूदाए कहं सिजन्दि अगाई । अहवा भमो । एदं वि आदु (छा) सखि ! कुन्तलतागृहसूक्ष्मयवनिकान्तरप्रतिबिम्बितं पश्य चतुरशिल्पिविधिकरकौशलम् । (छा) स एव कस्मादिह पुष्पधन्वा भवति । (छा) अयि शब्दच्छलेन वञ्चिताऽसि । यथाविधि चन्द्रशिलाभिः रचितेयं प्रतिमा हि रागेण कल्पितशोभारुचिरः विदितः प्रतिभाति सुमधनुरिव पुरः । किमनेन लोलत्वेन । सर्व स्फुटीभविष्यति । भवतु । अभ्यन्तरे पदं देहि । (छा) कथमेष स न भवेत् । अथवा अलं संशयेन । स एव । अन्यथा पुनस्तस्मिन्नेवानुरक्ताया मम महाकुलप्रस्तायाः कथं स्विद्यत्यहानि । अथवा भ्रमः । एतदपि उत सर्वत्र सा भावना वा। सर्वथा मम हृदयजीवितस्य वरणावेव मम शरणम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy