SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ६ विलास.] नाटकप्रकरणम्। .१२७ सख्यौ-हला जाव णिविडतिमिरभेदिणो चन्दकिरणकन्दला पुन्वदिसं अलंकरेदि दाव अङ्गेसु दे दोहलोवजुत्ताई भूसणाई आमोअइस्संभ। चन्द्रकला-जं जं वो रुच्चइ तं तं कहं ण करिस्सइ । (सख्यौ अलङ्कुरुतः) राजा-तां लोकभूषामपि भूषयन्त्यावायस्यतः केन मुधैव सख्यौ । यहा कथश्चित्समयस्स तावान् क्षिप्तव्य इत्येव तयोः प्रयत्नः ॥ चन्द्रकला-हला मम हिअवि तुहे किस मं आआसेह । [इति सन्तापमभिनयति ] राजा-आः कष्टम् । मुक्ताहाराः प्रस्फुटन्ति स्तनाग्रे कर्णोत्तंसः शुष्यति न्यस्यमानः। लाक्षारागः प्राक्तनोऽप्याद्रमास्ते तन्मन्ये स्यादुर्वहः कामतापः॥ मञ्जरी-[ अपवार्य ] अयि मञ्जुवअणे वतस्य संदावस्स उवसमोवाओ किंण चिंदिदो। मञ्जुवचना-[अपवार्य] एतं एव्व दाणिं पत्थावेदि [चन्द्रकला प्रति] हला जाव दोहलसमओ दाव इह वणंकणे अदूरे पोरंगणाहिं जहविहि पडिछाविआ कावि कप्पपडिमा चिद । सा उण उदकं सज एव्व सूएइत्ति जण. वादो, तं सेविअ आअइस्संह । चन्द्रकला-इदो उठेमि । सरणिं दंसत । - [इति तथा करोति ] सख्यौ-इदो इदो राजा-काश्चीघोषैः कामजैत्रप्रशस्ति व्याकुर्वद्भिः कीर्णमञ्जीरनादैः । (छा) सखि ! यावनिबिडतिमिरविभेदिनः चन्द्रकिरणकंदला: पूर्वदिशमलकुर्वन्ति तावदङ्गेषु ते दोहदोपपयुक्तानि भूषणानि आमोक्ष्यावः। (छा) यद्यद्वो रोचते तत्तत् कथं न करिष्यथ । (छा) सख्यौ ! मम हृदयमपि युवां कस्मादायासयथः । (छा) अयि मजुवचने ! वर्धमानस्य सन्तापस्योपशमोपायः किं न चिन्तितः । (छा) तमेवेदानी प्रस्तावयिष्यामि । (छा) सखि । यावद्दोहदसमयः तावदिह वनाङ्कणे अदूरे पौराङ्गनाभिर्यथाविधि प्रतिष्ठापिता कापि कन्दर्पप्रतिमा तिष्ठति । सा पुनरुदर्क सद्य एव सूचयतीति जनवादः । तां सेवित्वाऽऽगमिष्यामः । (छा) इत उत्तिष्ठामि । सरणिं दर्शयनाम् । (छा) इत इतः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy