SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ बिलास. ६ ] नाटकप्रकरणम् । भवतु ज्ञास्यामि । चन्द्र - ( सौत्सुक्यम् किञ्चिद्विमृश्य ) कहिं कहिं सो मह हिअअ (इस्यस्वगतं ) कहं मुद्दा विवसम्हि । ( इति विरमति ) राजा - सरभसविस्तृतकुश्चितनयनव्याख्यातमनसिजाकूता । अर्धोदितवचनसुधाकमनीयं किमपि विहृतमब्जदृशः ॥ मज्जु - (अपवार्य) मञ्जरिए अवि दिठ्ठो इमाए हिअअविलासो । मञ्जरी - (अपवार्य) अपि कुदो शूदणा विअ विहिदासि । जं उण एसा अणसुहअरं णाहपडिछन्दअं सअं एव्व लिहिदं पेक्खन्दी विह्मअविडारिदपेत्तणीलोव्वल कन्तितरङ्गकवलिअसामिविलोलकण्णोप्पलं बीलासिणेहसज्झसकोदुअवेवहुसंभममहुरमुद्धपणा मारम्भणिबद्धखिण्णकरकमलसंपुडधडणकणकणंतकंकणं अभ्भुट्ठन्ती तुए एव्व केत्तिअवारे णिरोहिदा णासी । चन्द्र--(स्वगतं ) इमाहो मह चावलं किं विचिन्दअन्दि, हो | (प्रकाश) सहि कहि मह हिअअप्पवन्तगुरु अराहिसंगाए वि अवन्जणिजा आरो कुरवओ, कदा उण दोहदो करणिजोति भट्टिणीए णिदेसो । मञ्जुवच - चन्दोदए एव्व । चन्द्रकला - अंहो ईरिसदसाई सोवि भविस्सइ । राजा - ममाप्येवमात्तसाध्वसं मनः १९५ उद्यन्नसाबुत्पलमौननिद्राविद्रावणानां निकरैः कराणाम् । प्रागेव कामज्वररूषितं मां दोषाकरः किन्नु करिष्यतीति ॥ अनेन विप्रियत्वेन शत्रुभूताच्छन्द्रात् भयसूचनादुद्वेगोनामाङ्गं सूच्यते । शत्रुचोरादिसम्भूतं भयमुद्वेग इष्यते । ( छा ) कुत्र कुत्र स मम स हृदय + कथं मुधाविवशाऽस्मि । (छा ) मञ्जरिके अपि दृष्टोऽस्या हृदयविलासः । ( छा) अयि कुतो नूतनेव विस्मिताऽसि । यत्पुनरेला नयनसुखरं नाथप्रतिच्छन्दकं स्वयमेव लिखितं पश्यन्ती विस्मयविस्तारितनेत्रनीलोत्पल कान्तितरङ्गकबलितसामि विलोलंकर्णोत्पनं त्रीलास्नेहसाध्वसकौतुकंवेपथुसंभ्रममधुरमुग्धप्रणामारम्भनिबद्धस्विन्नकरकमलसंपुटघटन कणकणाय मानकङ्कणमभ्युत्तिष्ठन्ती त्वयैव कियद्वारं निरुद्धा नासीत् । (छा ) इमे मम चापलं किमपि चिन्तयतः । भवतु सखि कुत्र मम हृदय प्रवर्धमान गुरुतराभिषङ्गाया अप्यवर्जनीयाचारः कुरवकः । कदा पुनर्दोहदः करणीय इति भट्टिन्या निर्देशः । (छा) चन्द्रोदय एव । (छा ) अहो ईदृशदशायां सोऽपि भविष्यति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy