SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १.२४. नजराजयशोभूषणम्। . [क्लिास.६ पविसिअ ताणं आगमणणिग्गमपेरन्तं कन्दप्पपडिमा विव णिचलङ्गो चिट्ठ अहं उण इदो ओसरामि (इति निक्रान्तः) राजा-( सविमर्श स्वगतम्) आदर्शनस्पर्शनमम्बुजाक्ष्यास्तस्या रतीशप्रतिमेव कामम् । निष्पन्दगात्रो निवसेति सख्या यदुक्तमास्तत्कथमाचरामि ॥ यदायतदृशस्तस्या दर्शने स्मरविभ्रमाः। उद्यन्तः प्रकृतारम्भं विरुन्धीरन्न संशयः ॥ तत्सर्वथैव दुःसाध्याअपि फलसाधनान्युपायाः सूच्यन्ते सकलजनेन लीलयैव । तत्सम्पादनसमये तु यः प्रयासो जानीते तमनुभवप्रवीण एकः ॥ भवतु यथा तथा वा। वयस्यकथितं कर्तुं सन्नह्यामि कथञ्चन । प्रयासेन विना कस्य घटते महितं सुखम् ॥ (परितो विलोक्य) कथमवतीर्ण एव कुडमारुणाम्बराञ्चलालक्ष्यपयोधरयाऽपि सन्ध्यया । भवतु यवनिकान्तरं प्रविशामि । (इति तथा स्थितः) (ततः प्रविशति ससखीजना चन्द्रकला) चन्द्रकला-हला मंजलिए केत्तिओ अन्तरो अहिगमिदं अंहाणं । राजा-(तां विलोक्य) अये परिभ्रान्तेव दृश्यते पद्मनयना तथा हिपादौ धर्मविलीढपल्लवरुचावूरू सकम्पो कृशौ मध्यो मन्मनसोपि कातरतरःस्रस्ताश्व दोर्विभ्रमाः। निश्वासश्चलदंशुकान्तनिपुणोन्नेयः स्तनस्पन्दनात् मुग्धस्वेदकणं मुखं च कथयत्यायासमेणीदृशः ॥ सख्यौ-हला परसदो पेक्ख । तुह णअणसरणिलग्गो एसो। राजा-नयनसरणिलग्नो वर्तते पार्श्वतोऽसा विति वचनमुदीतं यत्सखिभ्यां सलीलम् । विमृशति तदिदं मामन्यमाहोस्विदित्थं शिव शिव हृदयं मे संशये मग्नमास्ते ॥ (छा) सखि कियानन्तरोऽधिगन्तुमस्माकम् । (छा ) सखि पार्श्वतः पश्य, तव नयनसरणि लम एवैषः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy