SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ नाटकप्रकरणम्। १२३ विलास.६] राजा-(सवितकं स्वगतम् ।) यभूषणं त्रिजगतामपि सा नतभ्रू_ यषितं वदति चायमिमं निकुञ्जम् । यत्सिद्धवत्कथयते च समीहितं तत् प्रायो मम प्रियतमा निवसेदिहैव ॥ अत्र लिङ्गेन गमकेन तनिवासानुमानादनुमानं नामाङ्गम् । अर्थस्याभ्यूहनं लिङ्गमनुमानमुदाहृतम् । (प्रकाशं) यद्रोचते भवते (इति कुन्दलतागृहोपसर्पणमभिनयति) विदूषकः-वअस्स इदोवरं जह मए णिउजिअए तह होव्वंति तुमं अणुणेमि। राजा-विहस्य-इदमप्यर्थनीयम् । अव्याजमात्महितसङ्घटनोद्यतस्य सख्युस्तवापि वचनं न कथं शृणोमि । पातुं स्वहस्तममृतं ननु दीयते चेत् । __ को वेतरं जगति पृच्छति जाततर्षः ॥ विदू-तलिहि जयरअमग्गगदे इह एव्व तं सहिओ तुह अङ्गपरसणस्स आणइस्सदि राजा-आकस्मिकं मम सखे घटते कथमद्य भागधेयमिदम् । अप्रज्ञेयानथवा ज्ञातुं को नाम कामदोर्विभवान् । विदू-अदो एव्व माहणधणुषी मह हत्थे दाऊण पसूणमआई सरसरासणाई हत्थेसु धारेसु। राजा-(आत्मगतं) अये कौतुकपदमिदम् । (प्रकाशम्) कुतः (नेपथ्ये कलकलः) विदू-इदो पेरन्तमग्गेण दोहलाअदाए कण्णआए ससहीए भवणकलहंसकण्ठस्सराणुसरिअणोउरसिंजिदं एदं । ता एद्धसुक्खणिबद्धजवणिअन्तरं (छा) वयस्य इतःपरं मया यथा नियुज्यसे तथा भवितव्यमिति त्वामनुनयामि । (छा) तर्हि नगरमार्गपार्श्वगते इहैव तां सख्यस्तवाङ्गस्पर्शायानयिष्यन्ति । (छा ) अतएवैते मार्गणधनुषी ममहस्ते दत्वा प्रसुनमये शरशरासने हस्तयोर्धारय । (छा ) इतःपर्यन्तमार्गेण दोहलागतायाः कन्यकायाः ससख्या भवनकलहंसकण्ठस्वरानुसृतनूपुरशिभितमेतत् । तदत्र सूक्ष्मनिबद्धयवनिकान्तरं प्रविश्य तासामागमननिर्गमनपर्यन्तं कन्दर्पप्रतिमेव निश्चलाङ्गस्तिष्ठ । अहं पुनरितोऽपसरामि। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy