________________
१२२
नजराजयशोभूषणम्।
[विलास.६ प्रस्तुतोत्कर्षवचनमुदाहरणमिष्यते । नियुक्तोऽप्येकार्थे तदधिकमभीष्टं घटयते
जनो यः स श्रेष्ठश्चतुरचतुरो यस्तु कथितम् । विधत्ते स्वाधीनं स किल चतुरो मध्यमगुणो
नयत्याशास्यान्यन्नियतमधमो यः स हि पशुः ।। विदू-इदो वरं इमाए सह तुमं एकाअंमि घटअन्तो चयुरतमत्तणं वि बहिल्लो भारं विअ वहिस्सं ।
राजा-तर्हि इदं ते पारितोषिकम् । (इति स्वकण्ठादेकं मुक्ताहारमुन्मुच्य तत्कण्ठे करोति)।
विदू-सानन्दम् ( आत्मानं विलोक्य ) वअस्स रज्जलाहसमये रहुवइदिण्णेण हारेण हणूमन्तस्स विअ होदा विइण्णेण णेण हारेण अहिअं सो हन्दि मह अङ्गाइ।
राजा-अरे अलमात्मोचितेनाप्यप्रकृतेन परिहासितप्रस्तावेन । अयमिदानीम् ।
सुभ्रवः सरसकल्पवल्लिकापल्लवादपि मनोहरः करः।
स्पक्ष्यतीति ननु मां यदीरितं तत्कदा नु भवितेति शङ्कते ॥ अनेन शङ्काकथनात् रूपं नामाङ्गं सूच्यते 'रूपं शङ्काकुलं वच, इति । विदू-कुदो आसङ्का, णं अइरेण । संस्कृतमाश्रित्य ।
अङ्केऽधिरोप्य वनितां नमिताननां ता
मुल्लास्य सान्त्ववचनेन कपोलबिम्बे । वक्त्रार्पणेन विरलय्य भयं च लज्जा
स्वाधीनयिष्यसि सखे स्मरराज्यलक्ष्मीम् ॥ अनेन समाधिकथनात् सङ्ग्रहो नामाङ्गम्
समाधिकथनं यत्तु सङ्गहः स उदाहृतः। राजा-क इवाभ्युपायस्तस्या स्पर्शनमहोत्सवाय ।
विदू-किं दाणिं पल्लविदेहिं वअणेहिं । ( अदूरे निर्दिशन् ) एदं भूसिदं कुन्दलदाघरअं तुमं पाविअ किआरूपेण एव्व तुह पच्चुत्तरइस्सं ।
(छा ) इतःपरं अनया सह त्वामेकाहे घटयन् चतुरतमत्वमपि बलीवर्दो भारमिव वहिष्यामि ।
(छा) वयस्य राज्यलाभसमये रघुपतिवितीर्णेन हारेण हनुमत इव भवता वितीर्णेनानेन हारेणाधिकं शोभन्ते ममाङ्गानि ।
(छा ) कुत आशङ्का नन्वचिरेण । (छा ) कि मिदानी पल्लवितैर्वचनैः एतत् भूषितं कुन्दलतागृह त्वां प्रापय्य क्रियारूपेणै तव प्रत्युत्तरयिष्ये ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com