SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १२२ नजराजयशोभूषणम्। [विलास.६ प्रस्तुतोत्कर्षवचनमुदाहरणमिष्यते । नियुक्तोऽप्येकार्थे तदधिकमभीष्टं घटयते जनो यः स श्रेष्ठश्चतुरचतुरो यस्तु कथितम् । विधत्ते स्वाधीनं स किल चतुरो मध्यमगुणो नयत्याशास्यान्यन्नियतमधमो यः स हि पशुः ।। विदू-इदो वरं इमाए सह तुमं एकाअंमि घटअन्तो चयुरतमत्तणं वि बहिल्लो भारं विअ वहिस्सं । राजा-तर्हि इदं ते पारितोषिकम् । (इति स्वकण्ठादेकं मुक्ताहारमुन्मुच्य तत्कण्ठे करोति)। विदू-सानन्दम् ( आत्मानं विलोक्य ) वअस्स रज्जलाहसमये रहुवइदिण्णेण हारेण हणूमन्तस्स विअ होदा विइण्णेण णेण हारेण अहिअं सो हन्दि मह अङ्गाइ। राजा-अरे अलमात्मोचितेनाप्यप्रकृतेन परिहासितप्रस्तावेन । अयमिदानीम् । सुभ्रवः सरसकल्पवल्लिकापल्लवादपि मनोहरः करः। स्पक्ष्यतीति ननु मां यदीरितं तत्कदा नु भवितेति शङ्कते ॥ अनेन शङ्काकथनात् रूपं नामाङ्गं सूच्यते 'रूपं शङ्काकुलं वच, इति । विदू-कुदो आसङ्का, णं अइरेण । संस्कृतमाश्रित्य । अङ्केऽधिरोप्य वनितां नमिताननां ता मुल्लास्य सान्त्ववचनेन कपोलबिम्बे । वक्त्रार्पणेन विरलय्य भयं च लज्जा स्वाधीनयिष्यसि सखे स्मरराज्यलक्ष्मीम् ॥ अनेन समाधिकथनात् सङ्ग्रहो नामाङ्गम् समाधिकथनं यत्तु सङ्गहः स उदाहृतः। राजा-क इवाभ्युपायस्तस्या स्पर्शनमहोत्सवाय । विदू-किं दाणिं पल्लविदेहिं वअणेहिं । ( अदूरे निर्दिशन् ) एदं भूसिदं कुन्दलदाघरअं तुमं पाविअ किआरूपेण एव्व तुह पच्चुत्तरइस्सं । (छा ) इतःपरं अनया सह त्वामेकाहे घटयन् चतुरतमत्वमपि बलीवर्दो भारमिव वहिष्यामि । (छा) वयस्य राज्यलाभसमये रघुपतिवितीर्णेन हारेण हनुमत इव भवता वितीर्णेनानेन हारेणाधिकं शोभन्ते ममाङ्गानि । (छा ) कुत आशङ्का नन्वचिरेण । (छा ) कि मिदानी पल्लवितैर्वचनैः एतत् भूषितं कुन्दलतागृह त्वां प्रापय्य क्रियारूपेणै तव प्रत्युत्तरयिष्ये । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy