________________
विलास. ६ ]
नाटकप्रकरणम्
विच - (परिक्रम्य) अइ मञ्जरी वि इदो सच्चरं आअच्चइ ता णिजोअन्तरं महं देसु । अत्र सञ्चिन्त्यमानस्य मञ्जर्यागमनरूपार्थस्य प्राप्तिकथनात् क्रमो नामाङ्गम् ।
१२१
क्रमः सञ्चिन्त्यमानार्थप्राप्तिरित्यभिधीयते ।
मज्जु-तलिहि इदो णोमालिआघरआहिमुहगदं कुन्दलदामंदअं कञ्चणविदाणादिहिं सज्जीकरिअ तुरीअं आअच्छ अहं विभट्टिदारिअं पञ्चापइस्सं । विच - तह ( इति उभे निष्क्रान्ते )
प्रवेशकः ।
'वृत्तवर्तिष्यमाणानां कथांशानां निवर्तकः । प्रवेशकस्तु विज्ञेयो नीचपात्रप्रयोजितः ॥
ततः प्रविशति यथानिर्दिष्टो राजा ।
राजा - सखे यथा कथञ्चिदम्बुजाक्ष्यास्तस्याः सन्दर्शनमेव वा संपादयेति मन्नियोगस्य संपादितप्रायं साफल्यमिति भवत्प्रतिभामभिनन्दामि (परिक्रम्य ) आः कथमचिरेण ।
कान्तानुरागपिशुनैर्वचनैस्त्वदीयैः प्रासोऽहमात्त कुतुकस्तमिमं प्रदेशम् । यस्मिन्भविष्यति मम प्रियया कुचाभ्यामासङ्गितः कुरवको नवकोरकश्रीः ||
विदू - वअस्स ण केवलं चिन्दिदो उवाओ दस्सणस्स, जस्सिं लडे जोणार समजणं वि अणादरणिजं भवे । तारिसस्स तिस्सा करकमलपरसणस्सवि ।
राजा - साधु वयस्य चतुरोऽसि । अत्र ज्योत्स्नारसेत्यादिना प्रकृतकरकमलस्पर्शनस्य उत्कर्षसूचनादुदाहरणं नामाङ्गम् ।
(छा ) अयि मञ्जर्यपि इतः सत्वरमागच्छति, तन्नियोगान्तरं मह्यं देहि ।
(छा ) तर्हि नवमालिकागृहाभिमुखगतं कुन्दलतामण्डपं काञ्चनवितानादिभिः सज्जीकृत्य त्वरितमागच्छ । अहमपि भर्तृदारिकां प्रस्थापयिष्यामि ।
( छा) तथा ।
( छा) वयस्य न केवलं चिन्तित उपायो दर्शनस्य, यस्मिन् लब्धे ज्योत्स्नारसमज्जनमप्यनादरणीयं भवेत्, तादृशस्य तस्याः करकमलस्पर्शस्याऽपि ।
१६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com