SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ विलास. ६ ] नाटकप्रकरणम् विच - (परिक्रम्य) अइ मञ्जरी वि इदो सच्चरं आअच्चइ ता णिजोअन्तरं महं देसु । अत्र सञ्चिन्त्यमानस्य मञ्जर्यागमनरूपार्थस्य प्राप्तिकथनात् क्रमो नामाङ्गम् । १२१ क्रमः सञ्चिन्त्यमानार्थप्राप्तिरित्यभिधीयते । मज्जु-तलिहि इदो णोमालिआघरआहिमुहगदं कुन्दलदामंदअं कञ्चणविदाणादिहिं सज्जीकरिअ तुरीअं आअच्छ अहं विभट्टिदारिअं पञ्चापइस्सं । विच - तह ( इति उभे निष्क्रान्ते ) प्रवेशकः । 'वृत्तवर्तिष्यमाणानां कथांशानां निवर्तकः । प्रवेशकस्तु विज्ञेयो नीचपात्रप्रयोजितः ॥ ततः प्रविशति यथानिर्दिष्टो राजा । राजा - सखे यथा कथञ्चिदम्बुजाक्ष्यास्तस्याः सन्दर्शनमेव वा संपादयेति मन्नियोगस्य संपादितप्रायं साफल्यमिति भवत्प्रतिभामभिनन्दामि (परिक्रम्य ) आः कथमचिरेण । कान्तानुरागपिशुनैर्वचनैस्त्वदीयैः प्रासोऽहमात्त कुतुकस्तमिमं प्रदेशम् । यस्मिन्भविष्यति मम प्रियया कुचाभ्यामासङ्गितः कुरवको नवकोरकश्रीः || विदू - वअस्स ण केवलं चिन्दिदो उवाओ दस्सणस्स, जस्सिं लडे जोणार समजणं वि अणादरणिजं भवे । तारिसस्स तिस्सा करकमलपरसणस्सवि । राजा - साधु वयस्य चतुरोऽसि । अत्र ज्योत्स्नारसेत्यादिना प्रकृतकरकमलस्पर्शनस्य उत्कर्षसूचनादुदाहरणं नामाङ्गम् । (छा ) अयि मञ्जर्यपि इतः सत्वरमागच्छति, तन्नियोगान्तरं मह्यं देहि । (छा ) तर्हि नवमालिकागृहाभिमुखगतं कुन्दलतामण्डपं काञ्चनवितानादिभिः सज्जीकृत्य त्वरितमागच्छ । अहमपि भर्तृदारिकां प्रस्थापयिष्यामि । ( छा) तथा । ( छा) वयस्य न केवलं चिन्तित उपायो दर्शनस्य, यस्मिन् लब्धे ज्योत्स्नारसमज्जनमप्यनादरणीयं भवेत्, तादृशस्य तस्याः करकमलस्पर्शस्याऽपि । १६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy