________________
विलास. ६ ]
नाटकप्रकरणम् ।
बिदू-तंवि तुमं सोकूण कस्स भविस्सदि । राजा -- अये कृतं कृतं त्यक्तानुवर्तनेन । विदू -अणन्तरं जाणिदं इदो भवं आअदो । राजा - अथकिम् (सविषादम् ) तदाप्रभृत्येवमुद्रमामि । द्रष्टुं न काऽपि चक्षुः प्रसजति लगतो नैव कुत्रापि कर्णौ वाचामाकर्णनाय त्रुटति च हृदयं कोऽपि तापातिरेकः । अङ्गान्यङ्गारतीत्रैस्तपति च विशिखैर्दारुणः पञ्चवाण
११५
स्तत्केनाश्वासयिष्ये कथमतनुरुजः पारमालोकयिष्ये ॥ वि०- केण आससणिज्जो भविस्ससि, इदो एक्कं णिसं अदिवाहेहि । सुब्रो अहं मव्झण्णन्तरादो पुडमं एव्व दे इच्छिअसिद्धिं झत्ति संपादयिहस्सं ॥ अनेन प्राप्तानुकूलव्यापारकथनादर्द्धावस्था सूचिता । तदेवं बिन्दुप्रयत्नयोः सम्बन्धः साङ्गः प्रतिमुखसन्धिः ।
'प्रयत्नस्तु फलाप्राप्तौ व्यापारोऽतित्वरान्वितः ।' इति
राजा - अये क्षणमपि निस्सहमदनावेगस्य मम कथमेकरजन्यतिवाहनं नाम ।
वि० - होदु धीरतणं । ( प्रतीचीं निर्दिशन् ) पेक्ख दाणिं । अत्थाअलसिहरङ्कणमोलम्बइ भअवं भाणुमन्तो ।
नेपथ्ये वैतालिकाः । सुखाय देवस्य भवतु सन्ध्यासमयः । अद्य हिमीलन्त्यम्बुरुहाणि मन्दमरुतः केचिद्वलन्तेऽभितः
किञ्चिद्वर्ति (?) तकैरवा मृगदृशामुद्दाम रोषापहाः । राजन्ते च गृहे गृहे प्रकटितालोकाः प्रदीपा विभोः
कन्दर्पस्य समन्ततः प्रसृमरा यद्वत्प्रतापाङ्कुराः ॥ राजा - (आकर्णयन्नग्रतश्चक्रवाकं विलोक्य सकरुणम् ) अहमिव चकयुवैष प्रगुणित निर्व्याजरागभरितायाम् । योषिति तिरोहितायां भ्राम्यति मुह्यत्युदीक्षते च दिशः ॥
(छा ) भवतु धैर्यम्, पश्येदानी मस्ताचलशिखराङ्कणमवलम्बते भगवान् भानुमान् । (छा ) तदपि त्वां मुक्त्वा कस्य भविष्यति ।
( छा) अनन्तरं ज्ञातमितो भवानागतः ।
( छा) केनाश्वासनीयो भविष्यसि, इत एकां निशामतिवाहय श्वोऽहं मध्यादान्तरादेव प्रथमं ते इष्टसिद्धिं झटिति संपादयिष्ये ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com