SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ११४ नजराजयशोभूषणम् । [विलास.६ राजा-ततश्च कानपि क्षणानमन्दानन्ददायिनस्तत्रैव विलासविलोकनैरेव संभावयन्ती जनमिमत्रान्तरेण तावदम्बिकामध्याह्नसेवावसरमौहूर्तिकमाङ्गल्यमृदङ्गमाकये सखीभिः सह कथञ्चिदुत्थाय विवलितकन्धरं मन्दमन्दविन्यासमृदुतरशिञानमणिमञ्जीरं जगन्मातुरालयपरिसरमधिगतवती । गमनसमयेऽपि तरलाक्षी मय्येव कचिदलितकन्धरं कचिदुदीतमन्दस्मितं कचित्तरलितत्रपं कचिदुपानमद्भूलतम् । कचिच्च. जनितस्मरं कचन पक्षमपातालसं प्रतिक्षणविलक्षणं विकिरति स्म सा वीक्षणम् ॥ अनेन चन्द्रकलायाः सविशेषानुरागप्रकाशनात् पुष्पं नामाङ्गम् । सविशेषोऽनुरागस्य प्रकाशः पुष्पमीरितम् । इत्येतानित्रयोद शाङ्गानि ॥ वि०-अवि सहीहिं वि जाणिदं तस्सा हिअअं। राजा-तत्पुनराकर्ण्यताम् । ततश्च समुदलसन्नत्यन्तललितानि सखीनां परिहसितभाषितानि । विदू-किंति राजा-अयि सखि सत्वरमम्बिकामाराध्य निवर्तमाना पुनरचिरादेव तव कुचकुड्मलाश्लेषदोहलभागधेयेन सुमनोहर्षाद्रममाशासानस्य परिसरवर्तिनः कुरवकपादपस्य मनोरथमभिपूरयेति । विदु-किं कहिदं तह ताए। राजा-आकूतमात्मनिहितं स्फुटमालपन्ती रालीरपास्तपरुषा परितर्जयन्ती। आनन्दवर्धिततनुः श्लथनीविबन्धा लीलाम्बुजेन मृदुलं समताडयच्च ॥ विदु-अहो सव्वप्पयारमहुरो सो खु ललणाणं वओबन्धो। राजा--(साशङ्कम् ) अर्धार्घव्यञ्जितानङ्गलीलाडोलायितत्रपम् । वयो नु भोक्तुं(क्तु:१)तन्वङ्गयाः किञ्चि(दे ?)वेन्द्रवैभव:(वम् ?)॥ (छा ) अपि सखीभिरपि ज्ञातं तस्या हृदयम् । (छा) किमिति। (छा) किं कथितं तदा तया। (छा ) अहो सर्वप्रकारमधुरः खलु ललनानां वयोवन्धः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy