SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ११३ विलास. ६] नाटकप्रकरणम् । गौरी प्रणन्तुं प्रियभाषिणीभिः सखीभिरायादथ काऽपि कान्ता ॥ विदु-तए एव्व दे जीविआए होदव्वं । राजा-स्वनेत्रलीलापुनरुक्तमीने सा तत्र तस्मिन्सरसि प्रसन्ने । लाताऽनुलिप्ता च विभूषिता द्रा गामजयन्मामपि मोहसिन्धौ ॥ विदु-होदु सा एव्व णिअकुअकुम्भपरिग्गाहणेण तारिससिन्धुणो उत्तारयिस्सदि। राजा-गौरीसमक्षमथ वादयितुं विपञ्ची हस्तेन मञ्जुलरणन्मणिकङ्कणेन । अङ्गुष्ठतर्जनियुगेन विमृज्य तन्त्री ब्वास्फाल्य सा नखमुखेन परीक्षते स्म ॥ विदू-दा(था?)णे खु इमे वैणिआणं संपदाओ। राजा-ततश्च सा परिसरवर्तिनीभिर्मयि विस्मयविकीर्णनेत्रोत्पलाभिः सखीभिरयि प्रियसखि विचित्रं ते रागकौशलम्, यदितः त्वद्रागसमाकृष्टहृदयः कुरङ्गनिकरोऽयं भवत्परिसरं न मुञ्चति, पश्येति, सस्मितव्याज दर्शितं मामतिलड्डितामृततरङ्गैरपाङ्गैरभिषिक्तवती । वि-तह तुए बहाणन्दो वि अयरीकिदो हवे । राजा-सखे ननु तथैव कथयिष्यामि । लिप्ये तदानु कपूरैर्लिो नु जलदोदरैः सिच्ये नु चंद्रिकासारैरित्यमन्यत मे मनः विदू-वअस्स विम्मअसम्भमसमाइण्णएअराणं उल्लसन्तभूणचणप्पउणिआणं तिहुवणीजुवहिअअचट्ठिहाअणवारणबन्धणनीलमणिसिङ्खआणं तिभाअविक्खणाणं पहावो एसो। (छा) तयैव ते जीविकया भवितव्यम् । ( छा) भवतु सैव निजकुचकुम्भपरिग्राहणेन तादृशसिन्धोरुत्तारयिष्यति । (छा ) स्थाने खल्वयं वैणिकानां संप्रदायः । (छा ) तर्हि त्वया ब्रह्मानन्दोऽप्यधरीकृतो भवेत् । (छा) वयस्य विस्मयसंभ्रमसमाकीर्णकेकराणामुल्लसद्भूनर्तनप्रगुणितानां त्रिभुवनयुवहृदयषाष्ठिहायनवारणबन्धमनीलमणिशृङ्गलानां त्रिभागवीक्षणानां प्रभाव एषः । ०५ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy