________________
११२ नजराजयशोभूषणम्।
[विलास. ६ विदू-जह सा रअणाअरकण्णआ तडू पुरुसुत्तमेण तुए एव्व परिक्खि अहरेण वि इमा सुहासोदरत्तणं पअडेदित्ति जाणिव्वा भविस्सदि । होदु कहिं दिडपुन्वा कहं वा अणुराअचिण्णाई ।
राजा-यदि कुतूहलमनुक्रमेण श्रूयताम् अपि स्मरसि सखे मृगयां पर्यटिष्यामि।
विदू-आम जदाखु मए केत्तिअपदाइं तुमं एव्व अनुसरन्तेण मज्झे मग्गं सावदकोलाहलं सुणिअ वेवन्तेण किंवि सेलकन्दरं पविसिअ तुज्झ आअमणपेरन्तं अभयुप्पादअममिअमिच्चाअं आवठ्ठन्तेण ठिअमासी ।
राजा-ततो मृगयानिवृत्तो दूरविकीर्णपरिजनः ककुगिरिपरिसर एव कमपि सरःप्रान्तमतिश्रान्ततया यावद्ध्यवसायं(वसं ?)तावदेव ।
मात्रा दत्तं स्तन्यमप्यर्धपीतं __ मुत्का दूरं संभ्रमस्तब्धकर्णाः । पुनीभूय प्रोन्नमत्कण्ठनालाः
प्रान्ते चेरु केऽपि सारङ्गशाबाः ।। विदू-ता सविहे एव्व एकाए कन्ताआ(ए?) उवक्कन्दसङ्गीदाए होदव्वं । आजम्मसिद्धो अच्चादरो खु गीदिसु मिआणं ।
राजा-तानहमप्यन्वसरम् । ते च भगवतीभवनपर्यन्तसञ्चारमहिनेत्व कदाऽप्यपरिचितशङ्कावासतमोगन्धा धनुष्मता मयाऽनुसृताअप्यभिन्नगत यस्तद्गिरेरपित्यकामधिरुह्य गौरीगृहप्राङ्गणगतसुवर्णाजिनीतटमन्दारवाटिकामूलमध्यतिष्ठन् । विदु-तुए वि तह एव्व किदं तदो तदो। राजा-स्वर्णाम्बिकामम्बरकुन्तलस्य
गङ्गाधरस्याङ्कमहारत्नम् । (छा ) यदि सा रत्नाकरकन्यका तदा पुरुषोत्तमेन त्वयैव परीक्ष्य अधरेणाप्येषा सुधासोदरत्वं प्रकटयतीति ज्ञेया भविष्यति । भवतु कुत्र दृष्टपूर्वा सा कथमनुरागचिह्नानि ।
+ अत्र पर्यटिष्यमीति भूतार्थों लुट्प्रयोगः स्मृधातुयोगप्रयुक्तः अभिज्ञासूचकः ।
(छा ) आम् यदा खलु मया कियत्पदानि त्वामेवानुसरता मध्ये मार्ग श्वापदकोलाहलं श्रुत्वा कमपि शैल कन्दरं प्रविश्य वेपमानेन तवागमनपर्यन्तं अभयोत्पादकममृत मृत्युञ्जयमावर्तयता स्थितमासीत् । ..
(छा ) तत्सविध एव एकया कान्तया उपक्रान्तसङ्गीतया भवितव्यम् । आजन्मसिद्धोऽत्यादरः खलु गीतिषु मृगाणाम् ।
(छा) त्वयाऽपि तथैव कृतं ततस्ततः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com