SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ विलास. ६] नाटकप्रकरणम्। १११ राजा-सत्यमाह भवाननतिमुक्त एव बालभावस्तस्याः । तथाहि । कान्तिः काऽपि पदं ददाति मृदुलेष्वङ्गेषु लोलभ्रुव. स्तस्याः किं च गतागतैश्च शनकैरभ्यस्यते मन्दता । धत्ते नेत्रयुगं च दुग्धधवलां काश्चित्प्रसादश्रियं तन्मन्ये स्पृशति प्रिया मम मनस्संजीवनं यौवनम् ॥ अत्र राजविदूषकोक्तिभिः कान्तानुरागप्रकाशनात् प्रगमो नामाङ्गम् । रागप्रकाशः प्रगम उत्तरोत्तरभाषणैः ॥ इति ॥ विदू-अवि दिठो तुए मंजिठाराअसरिसो तस्सा अणुराओ । जदो 'मम मनस्संजीवनं यौवन'मिति सिद्धकजो विअ कहेहि । राजा-धिक धिक् तमेव ननु कापुरुषं वधूनां ___ यस्तु स्वभावलसतामपि विभ्रमाणाम् । स्वस्मादनन्यभवतामभिमन्यमानो मुह्यन्मुदं वहति मूढजनाग्रगण्यः ॥ अत्र कान्तानुरागभ्रमेण मुदितेषु मूढेषु नैष्टुर्यप्रकाशनाद्वजं नामाङ्गम् । वज्रं तदिति विज्ञेयं यत्तु निष्ठुरभाषणम् । विदू-तइ ताए इडिआए सक्खा लच्छीए रुव्वन्तरेण होदव्वम् । अण्णहा उण सिविणअम्मि असाहारणीसु तरुणीसु वि मानसीसु विमुहस्स दे रण्णो कहं सेराणुबन्धो ताई अणुराओ हवे । अत्र लक्ष्म्या रूपान्तरपरिग्रहणमेव राजानुरागहेतुरिति सूचनादुपन्यासो नामाङ्गम् । उपन्यासोऽनुरागस्यहेतुप्रकटनं वचः इति । राजा-स्थाने तव वचनम् । तथा हि सौभ्रानं सुरवीरुधां कथयति व्यक्तं स्वदोर्विक्रमैः ___ सागभ्यं प्रकटीकरोति हि गलोल्लासेन कम्बोरपि । सौन्दर्यं च मुखश्रिया विशदयत्यापूर्णचन्द्रस्यय नूनं सा रमणी विशुद्धयशसो रत्नाकरस्यात्मजा (छा ) अपि दृष्टस्त्वया मनिष्टारागसदृशस्तस्याअनुरागः । यतो मम मनस्सचीवनं यौवनमिति सिद्धकार्य इव कथयसि। (छा ) तदा तया स्त्रिया साक्षालक्ष्म्यारूपान्तरेण भवितव्यम् । अन्यथा पुनः स्वप्नेऽपि असाधारणीष्वपि मानुषीषु विमुखस्य ते राज्ञः कथं स्वैरानुबन्धस्तस्यामनुरागो भवेत् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy