________________
विलास. ६] नाटकप्रकरणम्।
१११ राजा-सत्यमाह भवाननतिमुक्त एव बालभावस्तस्याः । तथाहि ।
कान्तिः काऽपि पदं ददाति मृदुलेष्वङ्गेषु लोलभ्रुव.
स्तस्याः किं च गतागतैश्च शनकैरभ्यस्यते मन्दता । धत्ते नेत्रयुगं च दुग्धधवलां काश्चित्प्रसादश्रियं
तन्मन्ये स्पृशति प्रिया मम मनस्संजीवनं यौवनम् ॥ अत्र राजविदूषकोक्तिभिः कान्तानुरागप्रकाशनात् प्रगमो नामाङ्गम् ।
रागप्रकाशः प्रगम उत्तरोत्तरभाषणैः ॥ इति ॥ विदू-अवि दिठो तुए मंजिठाराअसरिसो तस्सा अणुराओ । जदो 'मम मनस्संजीवनं यौवन'मिति सिद्धकजो विअ कहेहि । राजा-धिक धिक् तमेव ननु कापुरुषं वधूनां
___ यस्तु स्वभावलसतामपि विभ्रमाणाम् । स्वस्मादनन्यभवतामभिमन्यमानो
मुह्यन्मुदं वहति मूढजनाग्रगण्यः ॥ अत्र कान्तानुरागभ्रमेण मुदितेषु मूढेषु नैष्टुर्यप्रकाशनाद्वजं नामाङ्गम् । वज्रं तदिति विज्ञेयं यत्तु निष्ठुरभाषणम् ।
विदू-तइ ताए इडिआए सक्खा लच्छीए रुव्वन्तरेण होदव्वम् । अण्णहा उण सिविणअम्मि असाहारणीसु तरुणीसु वि मानसीसु विमुहस्स दे रण्णो कहं सेराणुबन्धो ताई अणुराओ हवे ।
अत्र लक्ष्म्या रूपान्तरपरिग्रहणमेव राजानुरागहेतुरिति सूचनादुपन्यासो नामाङ्गम् । उपन्यासोऽनुरागस्यहेतुप्रकटनं वचः इति । राजा-स्थाने तव वचनम् । तथा हि
सौभ्रानं सुरवीरुधां कथयति व्यक्तं स्वदोर्विक्रमैः ___ सागभ्यं प्रकटीकरोति हि गलोल्लासेन कम्बोरपि । सौन्दर्यं च मुखश्रिया विशदयत्यापूर्णचन्द्रस्यय
नूनं सा रमणी विशुद्धयशसो रत्नाकरस्यात्मजा (छा ) अपि दृष्टस्त्वया मनिष्टारागसदृशस्तस्याअनुरागः । यतो मम मनस्सचीवनं यौवनमिति सिद्धकार्य इव कथयसि।
(छा ) तदा तया स्त्रिया साक्षालक्ष्म्यारूपान्तरेण भवितव्यम् । अन्यथा पुनः स्वप्नेऽपि असाधारणीष्वपि मानुषीषु विमुखस्य ते राज्ञः कथं स्वैरानुबन्धस्तस्यामनुरागो भवेत् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com