________________
११०
नञ्जराजयशोभूषणम् ।
अनेन इष्टजनानुनयसूचनात्पर्युपासनं नामाङ्गम् । इष्टस्यानुनयो यः स्यात्पर्युपासनमीरितम् ॥
अहवा - जाणिदेवि अत्थे किं आणादाणेन झटिदि तं इत्थिअं तुह
"
अङ्काभरणीकरिअ दुवेणं वि तुह्माणं सव्वहा भई भणिस्सं । अनेन परिहाससूचनान्नर्म नामाङ्गम् ।
'परिहासप्रधानं यद्वचनं नर्म तद्विदुः ।' इति
राजा - (सप्रसादं विलोकयन्साशंसम् ) । सा पुनरलघुनितम्बा स्नेहव्रीलार्धविकसितापाङ्गा ।
अङ्कं प्रसादयति चे
दलमलमन्येन वैभवेन मम ॥
अत्र
इति द्वित्रिर्वदति ।
सप्रसादं विलोकयन्नित्यनेन अनुरागोद्घाटकवचनेन प्रीत्य तिशयसूचनान्नर्मुद्युतिर्नामाङ्गम् ।
अनुरागोद्घाटनोत्था प्रीतिर्नर्मद्युतिर्मता । इति ।
विदू -कहं मिच्छारुव्वतरुणिं अच्छिगोअरं विअ करीअ कुदो एवं अहिणंदेसि ।
[ विलास. ६
अनेन मिथ्याप्रदर्शनव्याजेन हितात्मकानन्दस्य निरोधसूचनान्निरोधो
नामाङ्गम् ।
हितरोघो निरोधः स्याच्छद्मना येन केनचित् । इति
राजा - अरे कथमनृतमिश्रितमभिधत्से ।
शृणु - गुर्वी नितम्बजघने निबिडा कुचयोश्च नयनयोर्विपुला । अत्यायता च वेण्यामवलग्ने भवतु सा तु मिथ्यैव ॥
विदू - जय परमत्था तह तये अणदिमुत्तबालबाहाए होदग्वम् अण्णह उण अअक्कन्तलोहरेहा विअ दंसणेणेव्व महुरदंसणं तुमं कहं णो उवसरह
( छा) अथवा ज्ञातेऽप्यर्थे किमाज्ञादानेन झटिति तां स्त्रियं तवाङ्काभरणीकृत्य द्वयोर्युवयोः सर्वदा भद्रं भणिष्यामि ।
(छा ) कथं मिथ्यारूपतरुणीमक्षिगोचरामिव कृत्वा कुत एवमभिनन्दसि ।
(छा ) यदि परमार्था तदा तयाऽनतिमुक्तबालभावया भवितव्यम् । अन्यथा पुनरयस्कान्तलोहरेखेव दर्शनेनैव मधुरदर्शनं त्वां कथं नोपसरति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com