SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ११० नञ्जराजयशोभूषणम् । अनेन इष्टजनानुनयसूचनात्पर्युपासनं नामाङ्गम् । इष्टस्यानुनयो यः स्यात्पर्युपासनमीरितम् ॥ अहवा - जाणिदेवि अत्थे किं आणादाणेन झटिदि तं इत्थिअं तुह " अङ्काभरणीकरिअ दुवेणं वि तुह्माणं सव्वहा भई भणिस्सं । अनेन परिहाससूचनान्नर्म नामाङ्गम् । 'परिहासप्रधानं यद्वचनं नर्म तद्विदुः ।' इति राजा - (सप्रसादं विलोकयन्साशंसम् ) । सा पुनरलघुनितम्बा स्नेहव्रीलार्धविकसितापाङ्गा । अङ्कं प्रसादयति चे दलमलमन्येन वैभवेन मम ॥ अत्र इति द्वित्रिर्वदति । सप्रसादं विलोकयन्नित्यनेन अनुरागोद्घाटकवचनेन प्रीत्य तिशयसूचनान्नर्मुद्युतिर्नामाङ्गम् । अनुरागोद्घाटनोत्था प्रीतिर्नर्मद्युतिर्मता । इति । विदू -कहं मिच्छारुव्वतरुणिं अच्छिगोअरं विअ करीअ कुदो एवं अहिणंदेसि । [ विलास. ६ अनेन मिथ्याप्रदर्शनव्याजेन हितात्मकानन्दस्य निरोधसूचनान्निरोधो नामाङ्गम् । हितरोघो निरोधः स्याच्छद्मना येन केनचित् । इति राजा - अरे कथमनृतमिश्रितमभिधत्से । शृणु - गुर्वी नितम्बजघने निबिडा कुचयोश्च नयनयोर्विपुला । अत्यायता च वेण्यामवलग्ने भवतु सा तु मिथ्यैव ॥ विदू - जय परमत्था तह तये अणदिमुत्तबालबाहाए होदग्वम् अण्णह उण अअक्कन्तलोहरेहा विअ दंसणेणेव्व महुरदंसणं तुमं कहं णो उवसरह ( छा) अथवा ज्ञातेऽप्यर्थे किमाज्ञादानेन झटिति तां स्त्रियं तवाङ्काभरणीकृत्य द्वयोर्युवयोः सर्वदा भद्रं भणिष्यामि । (छा ) कथं मिथ्यारूपतरुणीमक्षिगोचरामिव कृत्वा कुत एवमभिनन्दसि । (छा ) यदि परमार्था तदा तयाऽनतिमुक्तबालभावया भवितव्यम् । अन्यथा पुनरयस्कान्तलोहरेखेव दर्शनेनैव मधुरदर्शनं त्वां कथं नोपसरति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy