________________
नञ्जराजयशोभूषणम् ।
[ विलास. ६
अत्र अहिणवेत्यनेन पूर्वदर्शितस्य पुनर्वर्णनान्तरेण व्यवहितार्थस्यानुसरणात्परिसर्पो नामाङ्गम्
१०८
पूर्वदृष्टपदार्थस्य त्वङ्गंभेदादिना ततः ।
अदृष्टस्य पुनः किञ्चित्परिसर्पो ह्यनुस्मृतिः ॥
होदु जह तह वा, एसो वयस्सो मं पडिवालअंतो चिठ्ठह । ( किञ्चिद्गत्वा स्वाङ्गानिपश्यन् सौरभाघ्राणमभिनीयोच्चैर्विलोक्य )
एदे पलिमलमलिम्सुआ महुआरा मं [ जाव] अहिवहन्ति दाव उत्तरिश्रेण किदावकुण्ठणो वयस्सस्स सआसं ॥
( इति तथा कुर्वन् अवकुण्ठन मभिनीय ) जेदुमहाराओ
राजा - ( अवकुण्ठिताङ्गं पश्यन् ) चकितः किमायासि, शङ्कते किंनु देवी नवललनानयनवल नलुलितं माम्
अत्र नवललनानयनवलनेत्यादिना नायिकाया अभिलाषानुकूलो व्यापारात्मा विलासो नाम प्रतिमुखसन्धेरङ्गं सूच्यते ।
विलासः सूच्यते प्राज्ञैर्व्यापारो रतिसूचकः ।
विदूषकः -- महुअरेहि अद्ध अपराडोम्हि । ता कुदो मुहा तरलो होसि । राजा - अये अपरिचितसमुत्कण्ठागन्धसरणिरसि, शृणु । द्वयोरप्यालापो यदि भवति शङ्कातरलता विविक्तेऽप्यावासे चकितचकितालोकनमपि ।
असीमास्वाशंसासलिलविधिवीचीषु विहृतिः
प्रसिद्धोऽयं पन्था भवति भृशमुक्तण्ठितवताम् ॥ विदूणं राआखु तुमं जेण केणावि पसङ्गेण पवन्तमुक्कण्ठं कह णिरोहिण भवसि
राजा - अयमेवात्यन्तदुर्वहो भरो यद्राजभावेऽप्युत्कण्ठितत्वं नाम पश्य । मनस्यन्याक्रान्तेऽप्यनुदिनमनेकैः पटिमभि
जगद्रे पीठे स्थितिरपरिहार्या नृपतिभिः ।
(छा ) भवतु यथा तथा वा एष वयस्यो मां प्रतिपालयन् तिष्ठति ।
(छा ) एते परिमलम लिम्लुचा मधुकरा मां यावदभिवर्तन्ते तावदुत्तरीयेण कृतावकुण्ठनो वयस्यसकाशं गमिष्यामि ।
(छा) जयतु महाराजः
(छा) मधुकरैरत्रापराद्धोऽस्मि तत् कुतो महातरलो भवसि ।
(छा) ननु राजा खलु त्वं येन केनापि व्यासङ्गेन प्रवर्धमानामुत्कण्ठां कथं निरोद्धुं न भवसि ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com