SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ नञ्जराजयशोभूषणम् । [ विलास. ६ अत्र अहिणवेत्यनेन पूर्वदर्शितस्य पुनर्वर्णनान्तरेण व्यवहितार्थस्यानुसरणात्परिसर्पो नामाङ्गम् १०८ पूर्वदृष्टपदार्थस्य त्वङ्गंभेदादिना ततः । अदृष्टस्य पुनः किञ्चित्परिसर्पो ह्यनुस्मृतिः ॥ होदु जह तह वा, एसो वयस्सो मं पडिवालअंतो चिठ्ठह । ( किञ्चिद्गत्वा स्वाङ्गानिपश्यन् सौरभाघ्राणमभिनीयोच्चैर्विलोक्य ) एदे पलिमलमलिम्सुआ महुआरा मं [ जाव] अहिवहन्ति दाव उत्तरिश्रेण किदावकुण्ठणो वयस्सस्स सआसं ॥ ( इति तथा कुर्वन् अवकुण्ठन मभिनीय ) जेदुमहाराओ राजा - ( अवकुण्ठिताङ्गं पश्यन् ) चकितः किमायासि, शङ्कते किंनु देवी नवललनानयनवल नलुलितं माम् अत्र नवललनानयनवलनेत्यादिना नायिकाया अभिलाषानुकूलो व्यापारात्मा विलासो नाम प्रतिमुखसन्धेरङ्गं सूच्यते । विलासः सूच्यते प्राज्ञैर्व्यापारो रतिसूचकः । विदूषकः -- महुअरेहि अद्ध अपराडोम्हि । ता कुदो मुहा तरलो होसि । राजा - अये अपरिचितसमुत्कण्ठागन्धसरणिरसि, शृणु । द्वयोरप्यालापो यदि भवति शङ्कातरलता विविक्तेऽप्यावासे चकितचकितालोकनमपि । असीमास्वाशंसासलिलविधिवीचीषु विहृतिः प्रसिद्धोऽयं पन्था भवति भृशमुक्तण्ठितवताम् ॥ विदूणं राआखु तुमं जेण केणावि पसङ्गेण पवन्तमुक्कण्ठं कह णिरोहिण भवसि राजा - अयमेवात्यन्तदुर्वहो भरो यद्राजभावेऽप्युत्कण्ठितत्वं नाम पश्य । मनस्यन्याक्रान्तेऽप्यनुदिनमनेकैः पटिमभि जगद्रे पीठे स्थितिरपरिहार्या नृपतिभिः । (छा ) भवतु यथा तथा वा एष वयस्यो मां प्रतिपालयन् तिष्ठति । (छा ) एते परिमलम लिम्लुचा मधुकरा मां यावदभिवर्तन्ते तावदुत्तरीयेण कृतावकुण्ठनो वयस्यसकाशं गमिष्यामि । (छा) जयतु महाराजः (छा) मधुकरैरत्रापराद्धोऽस्मि तत् कुतो महातरलो भवसि । (छा) ननु राजा खलु त्वं येन केनापि व्यासङ्गेन प्रवर्धमानामुत्कण्ठां कथं निरोद्धुं न भवसि । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy