SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १०६ नञ्जराजयशोभूषणम् । [ विलास. अनु०—अस्सुदपुव्वकहापसङ्गेण अगणिआदिवाहिअसरणिदीहन्तणेहिं अम्हेहिं मरअदसरपुव्वन्तरेण विलसन्तो कीलापव्वओ । अदूरीकिदो । राजा - इतः परमतिमृदुलचरणलीलाविन्यासार्होऽयमुद्देशः तदश्वादवतराम (इति तथाकुर्वन्) अये जाहिक क्षणमात्रं बहिराम्रवणे परिश्रान्तमर्वन्तं विश्रमय्य नातिदूरवर्तिनं नासीरमन्दुराङ्गणमधिनयस्व । अनुचरः - जहि सामिपादा आणवेन्ति, ( इति साश्वो निष्क्रान्तः ) राजा - (किञ्चित्परिक्रम्य अग्रतोऽवलोक्य) अये इमं किल क्रीडापर्वतम् । सिंदूरचूर्ण कुसुमप्रकरावकीर्णा सोपानपङ्किम (र)भितः परिकल्पितेयम् । यस्यां हरिन्मणिविनिर्मितहंसपक्षछायां लिखन्ति हरिणा हरितभ्रमेण ॥ यावदेनामारोहामि, इति तथा कुर्वन्, क्रीडापर्वत उपविश्य प्रतीचीं विलोकयन्— अये चरम गिरिशिखरस्य पञ्चषयुगान्तरमवलम्बते तदिदमम्बरमणिबिम्बम् । ततः किल त्रिचतुरदलवर्जं मीलदम्भोजषण्डं तरुषु तरणिभासस्तप्तचामीकराभाः । उपरि च निजनीडान्युद्धमन्तः शकुन्ताः स्फुटमचिरभवित्रीं सूचयत्यद्य सन्ध्याम् ॥ तत्किमिदानीमप्युपहृतप्रियवचनः प्रियवयस्यो न समायातः । प्रविश्य विदूषकः - सव्वस्सवि जणस्स अवज्जणिज्जो पकिदिगुणो, जेण मए छुहापिसासिआ परिक्खोहिअजठरेण तदा पच्चग्गकण्णआतारिसतिक्खकडक्खवाउरावलयेहिं भमन्तं वअस्सं वि महाराअं जणो विअ जणमुवक्खिय णिअकज्ज एव्व पवहिदमासी ॥ अत्र महाराज मुखवचनेन प्रथमं लक्ष्यभूताया नायिका कथायाः पञ्चग्गकण्णेत्यादिवाक्येन पुनर्व्य क्तीकरणात्प्रतिमुखसन्धिरयम् ॥ ( छा) अश्रुतपूर्वकथाप्रसङ्गेनागणिता तिवाहितसर णिदैर्ध्याभ्यामावाभ्यां मरकतसर: पूर्वोत्तरेण विलसत्कीडापर्वतः अदूरीकृतः । (छा ) यथा स्वामिपादा आज्ञापयन्ति । (छा) सर्वस्यापि जनस्यावर्जनीयः प्रकृतिगुणः येन मया क्षुत्पिशाचिकापरिक्षोभितजठरेण तदा प्रत्यग्रकन्यकातादशतीक्ष्णकटाक्षवागुरावल्यैर्भ्रमन्तं वयस्यमपि महाराजं जनइव जनमुपेक्ष्य निजकार्य एव प्रवर्तितमासीत् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy