SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ विलास. ६ ] नाटकप्रकरणम् । १०५ अनुचर:-सामिपादा ईसि मं कित्थेहि अपुव्वेण वअणसुहारअदाणेण, किस से तडाअस्स एरिसो कन्तिलाहो। राजा-मुखरोऽयं प्रवादः । शृणु नवमणिरचिताझं नर्मगोधेयरूपं (?) पशुपतिमिह मन्दं प्रेमतः सञ्चरन्तम् । मरकतमयपुच्छे संस्पृशन्त्यद्रिकन्याऽ प्यरुणरुचिरवाप्ता तस्य वालाग्रवर्णम् ॥ अनु०-अंहो वियित्तो कहापसङ्गो एसो तदो दएह । राजा अन्विष्य चान्विष्य तमद्भुताङ्गं प्रियं प्रकामश्रमविह्वलाङ्गीम् । गारुत्मता चेति गजेन्द्रयूनां प्राहुस्तदा तां प्रणयेन सख्यः ॥ (स्मृतिमभिनीय कृताञ्जलिः) ईषविश्लथबन्धचन्द्रशकलं ब्यालोलनासामणि प्रस्विद्यबदनाम्बुजं पृथुतरोणीलुठन्मेखलम् । व्यत्यस्यन्मणिहारमुन्नतकुचभ्रश्यहुकूलाञ्चल स्वस्थानार्पणसज्जदालि कलये मातुः शिवान्वेषणम् इति द्विस्त्रिर्वदन्नानन्दातिशयमभिनयति । अनु०-तदो दएह राजा-ततश्च श्रान्ता तदा शैलसुता वनेऽस्मि स्वयोगभून्ना तमिमं तटाकम् । प्रकल्प्य सस्लौ सलिलाशयोऽयं प्राप्तश्च तत्पूर्वमिमामभिख्याम् ॥ (छा)स्वामिपादाः ईषन्मां कृतार्थयत अपूर्वेण वचनसुधारसदानेन, कस्मादस्य तटाकस्य एतादृशः कान्तिलाभः। (छा) अहो विचित्रः कथाप्रसङ्ग एषः, ततो दयध्वम् । १. प्रापु cL. (छा ) ततो दयध्वम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy