SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ नजराजयशोभूषणम् । [विलास. ६ राजा-(विलोक्य)अहो रम्यता वनस्य । उन्निद्रस्तबकभ्रमन्मधुकरा पुन्नागवन्या पुरः पार्वेऽस्याः परिणडपञ्चमपिकश्रेणी रसालावलिः । तामञ्चलमानमन्दपवना मन्दारवाटी च त न्मन्येऽऽस्मिन्महिमण्डलेऽपि च किमप्यानन्दनं नन्दनम् ॥ (किश्चिदूरे विलोकयन्) समन्तादाबद्धस्फुरितमणिपुत्रीकरतल. भ्रमद्यन्त्रोदश्चत्सलिलकणसंसक्तसविधः । इतः क्रीडाशैलः कनककदलीकानननट न्मयूरापिच्छाग्रप्रचलदनिलोऽयं विलसति ॥ अनु०-इदो दाव पञ्चहनिव्वटिजन्तलीलामजणणिज्जरसीमन्तणीजणकुअकुम्मकुङ्कुमकुरङ्गमदजम्बालिअसलिलरिङ्गत्तरङ्गाणिलमंदन्दोअविअसिअसरसिअदोलरूढचकमरालमिहुणसिसिरण्ठसरमणोहरं मरगदसरो। राजा-(विलोक्य) रमणीयमिदं सरः । अनु०-अंहहे इमस्स सरसो पासचरन्ता अंहो साणुत्तेजीणसुवण्णरअणकञ्चुअपिणद्धसरीरा विअ जादह्म । राजा-विहस्य अरे कथ्यतएव भवता मरकतसर इति । पश्यास्य हि सरसः। तरुणमरकतश्रीबन्धुराम्भःप्रभाभि वनमिदमभितोऽपियाप्तदूर्वादला(भं?)। (आत्मीयं श्वेताश्वं निर्दिशन् ) किंबहुना न हसति हरिताश्चं रहसैवाद्यसोऽयं तुरगमणिरुदश्चद्वमवर्णश्रिया च ॥ वरणमहोत्सवसमयलताकन्यकाजनदीयमानगुस्तरमौक्तिकहारमण्डलालकृतेनेव कुसुमापचयार्थगगनाङ्गणावतीर्णविद्याधरदारिकाचरणक्षरनवलाक्षारसानुबन्धद्विगुणितारुणिमकिसलयमेदुरेण विविधतरुनिकरण विस्मारितचण्डकिरणप्रसरणं न्दनमिव त्रिभुवननन्दनमलकियते स्वामिभिरेतदुद्यानम् ॥ (छा) इतस्तावत्प्रत्यहनिवर्त्यमानलीलामजननिर्जरसीमन्तनीजनकुचकुम्भकुङ्कुमकुरङ्गमदजम्बालितसलिलरिङ्गत्तरङ्गानिलमन्दान्दोलितविकसितसरसिजडोलाधिरूढचक्रधाकमरालमिथुनशिशिरकण्ठस्वरमनोहरं मर्कतसरः। (छा) अहो एतस्य सरसः पार्वे चरन्तावावां शाणोत्तेजितसुवर्णरत्नकञ्चुकपिनद्धशरीराविव जाती। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy