SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १.०२ नजराजयशोभूषणम् । [विलास. ६ — राजा-सखे किंबहुना श्रूयतामस्मध्यवसायः। असमशरसमुद्यत्तापनिर्वापहेतु वचनममृतकल्पं यत्त्वयैवैकमुक्तम् । अपहसनमिदं वा तत्क्षणाश्वासनं वा तदुपरि निहिता मे सर्वधा जीविताशा ॥ विदू०-तह होदु इति (निष्क्रान्तः) राजा-कः कोत्र भोः, अश्वोऽश्वः । (प्रविश्य साश्वः पुरुषः)-उवडिओ सज्जीकिदो एस तुरङ्गो। राजा-(तुरगाधिरोहणमभिनयन् ) अये जाड्विक निर्दिश्यतां सरणिः । अनुचरः-इदो इदो सामिपादा। (इति निष्कान्ताः सर्वे) इति चन्द्रकलाकल्याणे प्रथमोङ्क: । अथ द्वितीयोङ्कः। ततः प्रविशति पूर्ववदेव राजाऽनुचरश्च । अत्र पूर्वाङ्कमविष्टपात्रस्यैव सूचकं विना प्रवेशकथनादयमकावतारः। अनुचरः-इदो दाणि णियणिम्मलसलिलम्भन्तरपडिविम्बिअविवहमणि साणुत्थइअभद्दसेलसिङ्गाए दहअं गईपइमहिरंजेदु वित्तवण्णपकञ्चुअपिण गुरुअरत्थणभरबन्धुराए विअ से दक्खिणपिनाइनीनामहेआए सेवलिणीए समीपं उगवअना। राजा-अये नयनानन्दिनी खल्वियम् । उभयतटसमुद्यचम्पकारण्यवाटी. सुमगलितपरागैः पिञ्जरीकारिताशा। पुलिनविहरमाणक्रौञ्चसारङ्गहंसा तरलतरतरङ्गा निन्नगा लक्ष्यते या ॥ (छा) वयस्य सन्ततपरिहसनशील एष तात्कालिकास्वासनकिमपि किमपि मधुरमिव कथयित्वा चलित इति मा मत्रय। (छा) उपस्थितः सज्जीकृत एष तुरङ्गः । (छा) तथा भवतु (छा) इत इतः स्वामिपादाः (छा) इतइदानी निजनिर्मलसलिलाभ्यन्तरप्रतिबिम्बतविविधमणिसानुस्थगितभवशैलश्शाया दयितं न दीपतिमभिरचयितुं विचित्रवर्णपट्टकम्बुकपिनद्धगुरुतरस्तनभरबन्धुराया इवास्या दक्षिणपिनाकिनीनामधेयायाः शैवाहिन्याः समीपमुपगतौस्वः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy